________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77 गाद्देशावराधकत्वं चाविरुद्धमेव, अंशभेदादेकत्रैव सप्रतिपक्षोभयधर्मसमाशाविरोधादिति चेद् / न, एवं सत्यसंयतभव्यद्रव्यदेवानां नितघानामभव्यादीनां चोपपत्तिमधिकृत्य साम्याभावप्रसङ्गात् / अथ नास्त्येव तेषामुपपातसाम्पम् , अवेयकेष्वपि निह्नवस्य देवदुर्मतितयोत्पादाद् / देवदुर्गतत्वं च न केवलं देवकिल्बिषिकत्वाादेनैव, तत्र तेषामभावाद् , किन्तु संमोहत्वेन / स च देवदुर्गतस्ततश्च्युतोऽनन्तकालं संसारे परिभ्रमति / यदागमः " केदप्पदेवकिल्बिसअभिओगा. आसुरी य संमोहा / तो देवदुग्गईओं मरणं.मि विराहिआ हुंति // "ति / आतुरप्रत्याख्यानप्रकीर्णके व्याख्यादेशो यथा-" संमोह'त्ति संमोहयन्ति-उन्मार्गदेशनादिना मोक्षमार्गाद् भ्रंशयन्ति ये ते संमोहाः, संयता अप्येवंविधा देवत्वेनोत्पन्ना संमोहा एवं रूपा दुर्गतिः, ता एव देवदुर्गतयो मरणाऽपध्यानादिना विराधिता भवन्ति, ततश्च्युता अनन्तसंसारं परिभ्रमन्तीति चेद् / न, अभव्यादीनामप्यकालवचनौषधप्रयोगात् प्राप्तप्रैवेयकोत्पादानां संमोहप्रावल्यन लुप्तसुखानां देवदुर्गतत्वाविशेषाद् / उक्तं चोपदेशपदे " कह णु अकालपओगे इत्तो गेविजगाइ सुहासिद्धी / णणु साहिगओसहजोगसोक्खतुल्ला मुणेयव्वा // 1 // कुणइ इह संणिताए सदोसहजोगसुक्खमित्तं तु / तह एयं विष्णेयं अणोरपारंमि संसारे // 2 // ण य तत्तओ तयंपि हु सुक्खं मिच्छत्तमोहिअमइस्स | जह रोद्दवाहिगहिअस्स ओसहदेवे य तब्भावे // 3 // कन्दर्पदेव किल्विषाभियोगा आसुरी च संमोहाः / ता देवदुर्गतयो. मरणेः विराधिता भवन्ति // कथं न्वकालप्रयोगे इतो ग्रैवेयकादिसुखसिद्धिः / ननु साधिकौषधयोगसाख्यतुल्या ज्ञातव्या // 1 // करोतीह संक्षितया सदोषधयोगसौख्यमानं तु / तथैतद् विज्ञेयं अनवारपारे संसारे // 2 // व च तत्त्वतस्तदपि खलु सौख्यं मिथ्यात्वमोहितमतेः। यथा रोद्व्याधिगृहीतस्य............ For Private and Personal Use Only