SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जइणीए'त्ति / जैन्या क्रियया निखिलसाधुसामाचार्यनुष्ठानरूपया द्रव्येणाराधकत्वपक्षे च देशाराधकत्वाभ्युपगमे चाभव्यादिलिङ्गिनाम: भव्यादीनां द्रव्यलिङ्गधारिणां सर्वाराधकभायो भवेत् , कुतोऽपि प्रयोजनात्तेषां निखिलसाधुसामाचारीग्रहणे तस्याः पश्चाररूपत्वाद , द्रव्यतश्चारित्रस्येव द्रव्यतो ज्ञानदर्शनयोरप्याराधकत्वस्य तेषां बलादुपनिपाताद् / न हि ते सम्यक्त्वांशेऽनाराधका एव चारित्रांशे त्वाराधका इत्यर्धजरतीयन्यायाश्रयणं प्रेक्षावतां घटते / सम्यक्त्वांशे भावत: सम्यक्त्वाभावेनोत्सूत्रभाषण-व्रतभङ्गाद्यभावेन चाराधकबिराधकरवभावाभावादनाराधकत्वस्येव चारित्रांशेऽपि भावतश्चारित्राभायेम प्राणातिपातादिव्रतभङ्गाद्यभावेन चाराधकविराधकस्वभावाभावादनाराधकत्वस्याविशेषाद् द्रव्यतश्चोभयाराधकत्वाविशेषादिति / यत्तु तेषां द्रव्यतोऽपि स्वेच्छाविशेषाद् व्रतांशस्यैव. ग्रहणं न तु श्रद्धानांश इति परस्य मतम् , तदुन्मत्तप्रलपितम् , अखण्डसामाचारीपालनबलेनैषः तेषां ग्रैवेयकोत्पादाभिधानादिति // 21 // दोषान्तरमप्याहतह णिण्हवाण देसाराहगभावो अवडिओ हुज्जा। तो परिभासा जुत्ता वित्तिं परिगिज्झ वृत्तुं जे॥२२॥ 'तह 'त्ति / तथेति दोषान्तरसमुच्चये / एकान्त व्यक्रिययैवाराध-- कत्वाभ्युपगमे निहवानामभिनिवेशादिना परित्यक्तरत्न ग्रयाणां सर्वविराधकत्वकालेऽपि देशाराधकस्वाभाबो भवेद् / यथा प्रति ज्ञातद्रव्यक्रियया अपरित्यक्तत्वादिष्टापत्तों को दोषः? इति चद, व्यवहारविरोध एव, न हि सर्वविराधको देशाराधकश्च कोऽपि व्यवष्ट्रियते / अथ द्रव्यक्रियामाश्रित्यैवाराधकत्व-विराधकत्वव्यवस्थाकरणात्सर्वविराधकत्वं निहवानां नेष्यते एव, प्रतिपन्नचारित्रविषयकद्व्याज्ञाभङ्गाभावाद्देशा-- राधकत्वम् , उत्सूत्रभाषणेन सम्यक्त्वविषयकप्रतिपन्नजिनाज्ञापरित्या-- तथा निबवानां देशाराधकभावोऽवस्थितो भयेत् / वतः परिभाषा युक्ता वृत्तिं परिग्रह्य वक्तुं हि // 22 // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy