SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 गन्तव्याः प्रसज्येरन् , मोक्षमार्गभूतशीलस्योपदिष्टवान् / तस्माद भव्या अभव्याश्च निखिलजैनसामाचार्यनुष्ठानयुक्ता मिथ्यादृष्टय एवं देशाराधका ग्राह्याः, तेषां द्रव्यशीलस्यापि मार्गपतितत्वेन व्यवहारनयापेक्षया प्रशस्तत्वाद् / अत एवाराधकानां सतामेतेषां नवमवेयक यावदुपपातो न विरुद्धः, अखण्डसामाचारीपरिपालनबलेन तत्रोत्पादात् / यदागमः-" अहं भंते असजयभविअदव्यदेवाणं....यावत्-जहण्णेणे भवणवासीसु उक्कोसेण उवरिमगेविजएसुं"त्ति भ० श. 232 वृश्येकदेशो यथा-" तस्मान्मिथ्यादृष्टय एव भव्या अभव्याश्चासंयतभव्य द्रव्य देवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठाने युक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते / तें यखिलसामाचारीप्रभावत एवोपरितनग्रैवेयकेषत्पद्यन्ते, असंयताश्च सत्यप्य नुष्ठाने चारित्रपरिणामशून्यत्वादिति” / इत्थं चैतदङ्गीकर्तव्यम्-जिनोक्तमनुष्टानमन्तरेणाराधकत्वाभावाद् मिथ्यादृष्टित्वमन्तरेण बालतपस्वित्वाभावाचेति // 19 // एतन्मतं दृषयतितं मिच्छा, जं फलओ मुक्खं आराहगत्तमिह पगयं। तं च ण एगंतेणं किरियाए भावसुहाए // 20 // तमिच्छत्ति। तत्संप्रदायायोक्तं मतं मिथ्या, यद् यरमादिह प्रकृतचतुर्भमप्रतिपादक भगवतोमुत्रे मुख्यं मोक्षानुकूलनाराकत्वं प्रकृतम् , ज्ञान-क्रियाऽन्यतरमोक्षकारणवादिनामन्यतीथिकानां मलनिरासार्थ तत्समुच्चयवादे विशदीकरणातत्सूत्रप्रवृत्तेः / प्रत्येक ज्ञानक्रिययोः स्वल्पसामर्थ्यस्य समुदितयोश्च नयोः सम्पूर्णसामर्थ्यस्य प्रदर्शनार्थ देशाराधकादिचतुर्भङ्गयपन्यासस्य सार्थक्यात् , प्रत्येकं स्वल्पसामर्थ्यस्याभावे च सिकतासमुदायात्तैलस्येव तत्समुदायादपि मोक्षस्यानुपपत्तेः / तदिदमाहाक्षेपसमाधान पूर्व भाष्यकार: 1 अथ भगवन् ! असंयत भव्य द्रव्यदेवानां यावत् जघन्येन भवनवासिषु, उत्कृष्टेनोपरितनग्रैवेय केषु इति // तन्मिथ्या, यत्फलतो मुख्यमाराधकत्वमिह प्रकृतम् / तच नैकान्तेन क्रियया भावशून्यया // 20 // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy