________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मनिर्जरामाश्रित्य तुल्याः, धर्मपृच्छनोत्पनसंज्ञास्तेभ्योऽसंख्येयगुणनिर्जरका, सतोऽपि पिपृच्छिषुः सत्साधुजिगमिषुः, तस्मादपि क्रियाऽऽविष्टः प्रतिपद्यमानः, सस्मादपि पूर्वप्रतिपन्नोऽसंख्येयगुणनिर्जरकः इति" सम्यक्त्वोत्पत्तिास्यातति / यदि चैतद्वचनयलादेव चारित्रादाविव सम्यक्त्वेऽप्यभिमुखप्रतिपद्यमान-प्रतिपन्नत्रयस्यैव गुणश्रेणीसभायात् सम्यक्त्वानमिनुख. मिथ्यादृष्टेने मार्गानुसारित्वमित्याग्रहस्तदा संगम नयसारावरपि मा. र्गानुसारित्वं न स्याद् / न हि भवान्तरव्यवधानेऽपि गुणश्रेण्यनुकूलमाभिमुख्यं संभवतीति सम्यक्त्वादिनियतगुणश्रेणि विनाऽपि मिथ्यारशामप्यल्पमोहमलानां संसारमतनुताकारिणी दयादानादिगुणपरिणतिर्मार्गानुसारितानियन्धनं भवतीति प्रतिपत्तव्यम् / अत एव " भवाभिनन्दिदोपाणां प्रतिपक्षगुणैर्युतः। बर्द्धमानगुणः प्रायो ह्यपुनर्वन्धको मतः // " इति योगबिन्दाबुक्तेम्, / अपुनर्वन्धका प्रथमगुणस्थानीयस्थाविशेष इति तत्र सर्वथा गुणप्रतिक्षेपवचनं निणानाथेति मन्तध्यम् // 17 // तदेवं मार्गानुसारिभावस्य कालमानयुक्तम्, अथानेन सदाचार' क्रियारुपेण ज्ञानदर्शनयोगायोगाभ्यां यथा चतुर्भङ्गी निष्पयते तथाऽह एअम्मि नाणदंसणजोगाजोगेहिं देससव्वकओ। चउभंगो आराहगविराहगत्तेसु सुअसिद्धो // 18 // एअम्मित्ति / एतस्मिन्- मार्गानुसारिभावे सदाचारक्रियारूपे ज्ञानदर्शनयोगायोगाभ्यामाराधकत्वविराधकत्वयोर्दशसर्वकृतश्चतुर्मङ्गसमाहारः श्रुतसिद्धः / तथाहि- 1 भागानुसारिक्रियावान् शानदर्शनहीनच देशाराधक इति प्रथमो भङ्गः / 2 ज्ञानदर्शनसंपन्नः क्रियाहीनश्च देशविराधक इति द्वितीयः / 3 ज्ञानदर्शनसंपन्नः क्रियासंपन्नश्च एतस्मिन् ज्ञानदर्शनयोगायोगाभ्यां देशसर्वकृतः / चतुर्भङ्गमाराधकविराधकत्वयोः श्रुतसिद्धः // 18 // For Private and Personal Use Only