________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं च कर्तभेदेन परमेऽन्यादृशं स्थितम् / पुद्गलानां परावर्ते गुरुदेवादिपूजनम् / / यतो विशिष्टकती यां तदन्येभ्यो नियोगतः / सदोगयोग्यतो भेदादिति सम्यग् विचिन्त्यताम् / / अन पूर्व खेकान्तेन योगायोग्यस्यैव देवादिपूजनमासीत् , चरमाघर्ते तु समुल्लसितयोगायोग्यभावस्यति / चरमावर्तदेवादिपूजनस्या. न्यावर्तदेवादिपूजनादन्याशत्वमिति वृत्तिकद् विलयानेतेन / यत्त्वन्यतीथिकाभिमताकरणनियमादेः सुन्दरत्वेन भणनं तद् हिंसाद्यासक्तजनस्य मनुष्यत्वस्येव स्वरूपयोग्यतया व्यवहारतो मन्तव्यम् / निश्चयतस्तु मिथ्यागकरणनियमो हिंसाद्यासक्तजनमनुष्यत्वं वेत्युभयमपि संसारकारणत्वेनानर्थहेतुत्वादसुन्दरमेवेति यत्केनचिदुकाम्', तदपास्तम् / न तादृशं वचनमभिनिवेशं विना संभवति, यतः पूर्वसेवापि मुक्त्यद्वेषादिसंगता चरमावर्तभाविनी, निश्चयतः प्राच्यावर्तभावितद्विलक्षणा योगयोग्यतयाऽऽचार्यैरतिशयितोक्ता, किं पुनरकरणनियमस्य साक्षाद् योगाङ्गस्य वक्तव्यमिति / नहि मनुष्यत्वसदृशमकरणनियमादिकम् , अन्येषामपि सदाचाररूपस्य तस्य सामान्यधर्मप्रविष्टत्वात् , सामान्यधर्मस्य च भावलेशसंगतस्य विशेषधर्मप्रकृतित्वात् , मनुष्यत्वं चानीदृशम् / किं च-हिंसाद्यासक्तमनुष्यत्वस्थानीयं यदि मिथ्यात्वविशिष्टमकरणनियमादिकं तदा मेघकुमारजीवहस्त्यादिदयाऽपि तादृशी स्याद् , उत्कटमिथ्यात्वविशिष्टस्य तस्य तथात्वे चेष्टापत्तिः, अपुनर्वन्धकादीनामुत्कटमिथ्यात्वाभावात्पूर्वसेवायामपि च तेषामेवाधिकृतत्वात् / तदुक्तम् " अस्यैषा मुख्यरूपा स्यात्पूर्वसेवा यथोदिता / कल्याणाशययोगेन शेषस्याप्युपचारतः // " इति / न चापुनर्बन्धकादेरपि न सम्यगनुष्ठानमिति शङ्कनीयम् , " सम्माणुठाणं चिय ता सव्वमिणंति तत्तओ णेयं / ण य अपुणबंधगाई मुत्तुं एवं इहं होइ॥" . ___ सम्यगनुष्ठानमेव तस्मात्सर्वमिदं तत्वत्तो शेयम् / न चापुनर्बन्धकादि मुक्त्वा एतदिह भवति // For Private and Personal Use Only