SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ता भावत्थयहेऊ जो सो दव्यत्थओ इहं इहो / जो उण णेवं भूओ स अप्पहाणो परं होइ // " इति / यदि च भाषलेशयोगाद्वयवहितस्यापि द्रव्यस्तवत्वमविरुद्धं तदा सत एव तादृशस्य मार्गानुसारिणो द्रव्याज्ञाप्यविरुद्वैव / यथाहिनिर्निदानं सूत्रविधिलक्षणेन भावस्तवानुरागलक्षणेन वा प्रकारेण जिनभवनाद्युचितानुष्ठानस्य द्रव्यस्तवत्वमव्याहतम् , एकान्तेन भावशून्यस्यैव विपरीतत्वात् / तथा अपुनर्बन्धकस्यापि भाषाज्ञानुराग-भावलेशयुक्तस्य व्यवधानेऽपि द्रव्याज्ञाया न विरोध इति / अत एव भवाभिष्वङ्गानाभोगासंगतत्वात् अन्यावर्तापेक्षया विलक्षणमेव चरमावर्ते गुरुदेवादिपूजनं व्यवस्थितम् / तदुक्तं योगबिन्दौ एतद् युक्तमनुष्ठानमन्यावर्तेषु तद् ध्रुवम् / चरमे त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः // एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते / सरुजेतर भेदेन भोजनादिगतं यथा // इत्थं चैतन् यतः प्रोक्तं सामान्येनैव पञ्चधा / विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः / विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् / गुर्वादिपूजाऽनुष्ठानमपेक्षादिविधानतः / / विषं लब्ध्याद्यपेक्षात इदं सञ्चित्तमारणात् / महतोऽल्पार्थनाद ज्ञेयं लघुत्वापादनात्तथा // दिव्यभोगाभिलाषेण गरमाहुर्मनीषिणः। एतद्विहितनीत्यैव कालान्तरनिपाननात् / / अनाभोगवतश्चैतदननुष्ठानमुच्यते / संप्रमुग्धं मनोऽस्येति ततश्चैतद् यथोदितम् / / एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः / सदनुष्ठानभावस्य शुभभावांशयोगतः॥ जिनोदितमिति त्वाहुर्भावसारमदः पुनः / संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy