SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दितः / स हि मिथ्यात्वोपघातात्समुपात्तविपरीतरुचिः, सत्त्वं च सद्भूतदेवतादिकमहत्त्वादिलक्षणम् , 'निंद'त्ति इतरचातत्वं तत्कुयुक्तिसमुपन्यासेन पुरस्करोति ततस्तत्त्वेतरनिन्दनादितो दोषाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुबन्धयुक्तस्यैव स्यादित्युपदेशपदवचनान्तरमनुसृत्यात्रानादिप्रवाहपतितस्य यथाप्रवृत्तकरणस्य चरमविभागः सम्यक्त्वप्राप्तिहेतुकर्मक्षयोपशमलक्षितावस्थाविशेषस्तद्वतां संनिहितग्रन्थिभेदानां स्वल्पकालप्राप्तव्यसम्यक्त्वानामत्यन्तजीर्णमिथ्यात्वज्वराणां सुन्दरप्रवृतिरिति भणनेन तद्वयतिरिक्तानां तु सर्वेषामपि मिथ्यादृशामसुन्दरप्रवृत्तिरेवोक्तेति सूक्ष्मदृशा पालोच्यमिति तेनोक्तम् / तदं विचारणीयम्-चरमत्वं यथाप्रवृत्तकरणस्यानन्तपुद्गलपरावर्तभाविनश्वस्मैकावर्तमात्रेणापि निर्वाह्यम् , संनिहितग्रस्थिभेदत्वस्य तु स्वल्पकालप्राप्तव्यसम्यक्त्वाक्षेपकता / " आसन्ना चेयमस्योच्चैश्चरमावर्तिनो यतः / भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किंचन / / आसन्ना चाभ्यर्णवर्तिन्येव इयमुक्तिरस्योधैरतीवचरमावर्तिनश्वरमपुद्गलपरावर्तभाजो जीवस्य, यतः कारणाद् भूयांसोऽतीवबहवोऽमी आवर्ता व्यतिक्रान्ता अनादौ संसारे व्यतीतास्तत एकोऽपश्चिमोत्र 'न किंचन' न किंचिद्भयस्थानमेष इत्यर्थः" - इति योगबिन्दुसूत्रवृत्तिवचनाच्चरमावर्तिर आसन्नसिद्धिकल्यस्यापि स्वल्पकालप्राप्तव्यसिद्ध्याक्षेपकत्वापत्तेः, आपेक्षिकासन्नतया समाधानं चोभयत्र सुघटमिति अथैकभविकाद्यचितयोग्यतानियतत्वाद् द्रव्याज्ञायाः सम्यक्त्वप्राप्त्यपेक्षया सदधिकव्यवधाने मिथ्यादृशो न मार्गानुसारितेति निश्चीयते इति चेद् / न, असति प्रतिवन्धे परिपाके वाऽपुनर्बन्धकादेर्मार्यानुसारिणोऽभावाज्ञाव्यवधानेऽपि सति प्रतिबन्धादौ तद्वयवधानस्यापि संभवात् तत्कालेऽपि भावाज्ञाबहुमानाप्रतिघातात् , उचितप्रवृत्तिसारतया द्रव्याज्ञाया अविरोधाद् , अन्यथा चारित्रलक्षणाद् भावस्तवादेकभविकाद्यधिकव्यवधाने द्रव्यस्तवस्याप्यसंभवप्रसङ्गाद् , भावस्तवहेतुत्वेनैव द्रव्यस्तवत्वप्रतिपादनात् / तदुक्तं पश्चाशके For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy