________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतरथाऽपि विधेः सदापालनामन्तरेणापि, हन्दीति पूर्ववत् . एतस्मिन् ग्रन्धिभेदे कृते सत्येष बचनप्रयोग आरोग्यसाधकश्चैवभावारोग्यनिष्पादक एव संपद्यते / तथा च पठरते " लन्ध्या मुहूर्तमपि ये परिवर्जयन्ति सम्यक्त्यरत्नमनवद्यपदप्रदायि / यास्यन्ति तेऽपि न चिरं भववारिराशौ __ तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् / __ अत्र हेतुमाह- पुद्गलानामौदारिक- तैजस- भाषा-ऽऽनप्राण-मनः कर्मग्रहणपरिणतानां विवक्षितकालमादौ कृत्वा यावतां सामस्त्येनकजीवस्य ग्रहनिसर्गों संपद्यते स कालः पुद्गलपरावर्त इत्युच्यते, पुद्गलग्रहणनिसर्गाभ्यां परिवर्तन्ते परापरपरिणतिं लभन्ते तस्मिनिति व्युत्पत्ते , तस्यार्द्ध यावद् यद् यस्मादूनं किंचिद्धीनम् , एतस्मिन् ग्रन्थिभेदे सति संसारिजीवानां तीर्थकराद्याशातनाबहलानामपि / अत्र दृष्टान्ताः कूलवालकगोशालकादयो वाच्या इति / एवं चोत्कर्षतोऽप्यपार्धपुद्गलपरावर्तावशेषसंसारस्यैव मार्गानुसारित्वमिति यत्केनचिदुक्तम् , तत्केनाभिप्रायेणेति विचारणीयं मध्यस्थैः / न वमपुनर्बन्धकापेक्षया कालभेदेन ग्रन्थिभेदस्य पुरस्करणमुपपद्यते, पराभिप्रायेणापार्द्धपुद्गलावर्तकालमानस्योभयत्राविशेषाद् एवं वदतो भ्रान्तिमूलं तावचरमयथाप्रवृत्तकरणभागभाजामेवापुनर्बन्धकादीनामधिकारित्वभणनम् , तादृशानां तेषां सम्यक्त्वसंनिहितत्वाद् / अत एव * " भवहेउनाणमयस्स पायसो सप्पवित्तिमावणं / तह तयणुबंधओ चिय तत्तेपरनिंदणाइओ // 5 भवहेतुः संसारनिबन्धनं ज्ञानं-शास्त्राभ्यासजन्यो बोध एतस्य मिथ्यादृष्टेः, कथम् ? इत्याह-प्रायशो बाहुल्येन, असत्प्रवृत्तिभावेन-विपर्यस्तचेष्टाकरणात् , तस्य यदिह प्रायोग्रहणं तद् यथाप्रवृत्तकरणचरमविभागमाजां संनिहितग्रन्थिभेदानामत्यन्तजीमिथ्यात्वज्वराणां केषांचिदुःखितद्या-गुणवदद्वेष-समुचिताचारप्रवृत्तिसाराणां सुन्दरप्रवृत्तिभावेन व्यभिचारवारणार्थम् / तथेति हेत्वन्तरसमुच्चये। तदनुवन्धत एवासत्प्रवृत्यनुबन्धादेव / एतदपि कुतः ? इत्याह-तत्त्वेतरनिन्दना भवहेतुज्ञानमेतस्य प्रायशोऽसत्प्रवृत्तिभावेन / तथा सदनुवन्धत पर तस्वेतरनिन्दनादितः // For Private and Personal Use Only