________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मग्गाणुसारिभावात्ति / मार्गानुसारिभावी निसर्गतस्तश्चानुकूलप्रवृत्तिहेतुः परिणाम आज्ञाया लक्षणं 'मुणेयव्य'ति ज्ञातव्यम् / क्रिया स्वसमयपरसमयोदिताचाररूपा, तस्य मार्गानुसारिभावस्योपकार प्रति. बन्धे वा न नियता, स्वसमयोदितक्रियाकृतमुपकारं विनापि मेघकुमारजीवहस्त्यादीनां तथाभव्यत्वपरिपाकाहिताऽनुकम्पादिमहिम्ना मार्गानुसारित्वसिद्धेः, परसमयक्रियायां च सत्यामपि समुल्लसितयोगदृष्टिमहिम्नां पतचल्यादीनां मार्गानुसारित्वाप्रतिघातात् / ___ अत्र कश्चिदाह-ननु पतचल्यादीनां मार्गानुमारित्वमशास्त्रसिद्धम् , उच्यते-नैतदेवम् , योगदृष्टिसमुच्चयग्रन्थ एव योगदृष्ट्यभिघानात् तेषां मार्गानुसारित्वसिद्धेः। उक्तं च-" निरूपितं पुनर्योगमारहरध्यात्मविद्भिः पतञ्जलिप्रभृतिभिस्तपोनिई तकल्मषः प्रशमप्रधानन तपसा क्षीणप्रायमार्गानुसारिबोधवाधकमोहमलैरिति " / उक्तं च-" योगमार्ग - स्तपोनि तकल्मषैः” इति प्रतीकं विवृण्वता योगविन्दुवृत्तिकृताऽपि तयां तदभिधानाचेति / अयमिह परमार्थः-अव्युत्पन्नानां विपरीतव्युत्पन्नानां वा परसमयस्थानां जैनाभिमतक्रिया यथाऽसद्ग्रहपरित्याजनद्वारा गव्यसम्यक्त्वाद्यध्यारोपणेन मार्गानुसारिताहेतुः, तथा सद्ग्रहप्रवृत्तानां तेषामुभयाभिमतयमनियमादिस्वरूपशुद्धक्रियाऽपि पारमार्थिकवस्तुविषयपक्षपाताधानद्वारा / तथाहि-योपादेयविषयमात्रपरीक्षाप्रवणत्वादध्यात्मविदां तथा च नियतक्रियाया मार्गानुसारिभावजननेऽनैकान्तिकत्वमात्यन्तिकत्वं वा, तथा च जैनक्रियां विनाऽपि भावजनानां परेषां मार्गानुसारित्वादाज्ञासंभवाविरुद्ध इति / युक्तं चैतद् , न चेदेवं तदा जैनक्रियां विना भावलिङ्गबीजाभावाद् भावलिङ्गस्यापि परेषामनुपपत्तावन्यलिङ्गसिद्धादिभेदानुपपत्तेः। यः पुनराह-परसमयानभिमतस्वसमयाभिमतक्रियैय असद्ग्रह विनाशद्वारा मार्गानुसारिताहेतुरिति, तदसत् , उभयाभिमताकरणनियमादिनैव पतञ्जल्यादीनां मार्गानुसारिताऽभिधानात् , व्युत्पन्नस्य मार्गानुसारितायां तत्त्वजिज्ञासामूलविचारस्यैव हेतुत्वात् , अव्युत्पन्नस्य तस्यां गुरुपारतळ्याधानद्वारा स्वसमया क्रियाहेतुत्वे परसमयानभिमतत्वप्रवेशे प्रमाणाभावाच / भवाभिनन्दिदोषप्रतिपक्षा गुणा एव हि For Private and Personal Use Only