________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इदमत्र हृदयम्-मयादिधार्मिकस्य विधिः सर्व एव सर्वत्रोपयुज्यते, किन्तु क्वचित्कश्चिदेवेति / भिन्नाचारस्थितानामप्यन्तःशुद्धिमतामपुनर्वन्धकत्वमविरुद्धम् , अपुनर्बन्धकस्य हि नानास्वरूपत्वात् तत्तत्तन्त्रोक्ताऽपि मोक्षार्था क्रिया घटते, सम्यग्दृष्टश्च स्वतन्त्रक्रियेवेति व्यवस्थितत्वात् / तदुक्तं योगबिन्दुमत्रवृत्त्योः अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते / तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् // ... अपुनबन्धकस्योक्तरूपस्यवमुक्तरूपेण सम्यग्नीत्या-शुद्धयुक्तिरूपया उपपद्यते-घटते / किम् ? इत्याह- तत्तचन्त्रोक्तं ' कापिल-मोगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानमखिलं समस्तम् , कुतः ? इत्याह-अवस्थाभेदसंश्रयातअपुनर्बन्धकस्यानेकस्वरूपाङ्गीकरणत्वात् , अनेकस्वरूपाभ्युपगमे हि अपुनर्बन्धकस्य किमप्यमुष्ठानं कस्यामप्यवस्थायामवतरतीति / अथापुनर्बन्धकानन्तरं यद्भवति तद्दर्शयनि " स्वतन्त्रनीतितस्त्वेव ग्रन्थिभेदे तथा सति / सम्यग्दृष्टिर्भवत्युच्चैः प्रशमादिगुणान्वितः।। 'स्वतन्त्रनीतितस्त्वेव' जैनशास्त्रनीतेरेव, न पुनस्तन्त्रान्तराभिप्रायेणापि, 'गन्थिभेदे ' रागद्वेषमोहपरिणामस्यातीवदृढस्य विदारणे, 'तथा' यथाप्रत्यादिकरणप्रकारेण ' सति ' विद्यमाने, किम् ? इत्याह- सम्यग्दृष्टिः' शुद्धसम्यक्वधरो ' भवति ' संपद्यते / कीदृशः ? इत्याह--' उच्चैः' अत्यर्थं प्रागवस्थातः सकाशात् ' प्रशमादिगुणान्वितः' उपशम-संवेग-निर्वेदानुकम्पाऽऽस्तिक्याभिव्यक्तियुक्त इति / एवं परेषामपि माध्यस्थ्ये द्रव्याज्ञासद्भावः सिद्धः // 15 // ननु द्रव्याज्ञाऽपि सिद्धान्तोदितक्रियाकरणं विना कथं परेषां स्यात् ? इत्यत आहमग्गाणुसारिभावो आणाए लक्खणं मुणेयव्वं / किरिया तस्स णणियया पडिबंधे वावि उपगारे॥१६॥ मार्गानुसारिभाव आज्ञाया लक्षणं ज्ञातव्यम् / क्रिया तस्य न नियता प्रतिबन्धे वाऽप्युपकारे // 16 // For Private and Personal Use Only