SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मवलम्व्येवमैदंपर्यव्यपेक्षया तत्वं निरूपगीयं स्यात् / कालातीतोऽप्य दोब्रवीत् " अन्येषामप्ययं मार्गों मुक्ताविद्यादिवादिनाम् / अभिधानादिभेदेन तत्त्वनीत्या व्यवथितः / / मुक्तो बुद्धोईन वापि यदैश्वर्येण समन्वितः। वदीश्वरः स एव स्यात् संज्ञाभेदोत्र केवलम् / / बनादिशुद्ध इत्यादिर्यो भेदो यस्य कल्प्यते / वसन्त्रानुसारेण मन्ये सोऽपि निरर्थकः / / . विशेषस्यापरिज्ञानाद् युक्तीनां जातिवादतः / प्रायो विरोधितश्चैव फलाभेदाच्च भावतः॥ अविद्याक्लेशकर्मादि यतश्च भवकारणम् / ततः प्रधानमेवैतत्संझाभेदमुपागतम् / / अत्रापि यो परो भेदश्चित्रोपाधिस्तथा तथा / गीयतेऽतीतहेतुभ्यो धीमतां सोऽप्यपार्थकः / / ततः स्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् / सामान्यमनुमानस्य यतश्च विषयो मतः // साधु चैतद् यतो नीत्या शास्त्रमत्र प्रवर्तकम् / यथाऽभिधानभेदात्तु भेदः कुचितिकाग्रहः // " इत्यादि / अर्थतेषां भावजैनत्वे आज्ञाऽसंभवमाहदव्वाणा खलु तेसि भावाणा कारणत्तओ नेया। जं अपुणबंधगाणं चित्तमणुट्ठाणमुवइह // 15 // दव्वाणत्ति / तेषामवेद्यसंवेद्यपदस्थानां भावजनानां 'खलु' इति निश्चये भावाज्ञायाः सम्यग्दर्शनादिरूपायाः कारणत्वतो द्रव्याज्ञा ज्ञेयाऽपुनर्बन्धकोचिताचारस्य पारम्पर्येण सम्यग्दर्शनादिसाधकत्वात् / तदुक्तं चोपदेशपदे द्रव्याज्ञा खलु तेषां भावाज्ञा कारणत्वतो झेया। यदपुनर्बन्धकानां चित्रमनप्रानसंपदिष्टम // 15 // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy