________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मावे प्रयोगवैकल्यात् , ततस्तथा तत्कार्याभावादिति / बलाष्टिः काष्ठाग्निकणतुल्या, ईषद्विशिष्टोक्तयोधद्वयात् , तद्भावेनात्र मनास्थितिवीर्ये अतः पटुमाया स्मृतिरिह, प्रयोगसमये तद्भावे चार्थप्रयोगमात्र. प्रीत्या यत्नलेशभावादिति / दीमादृष्टिीपप्रभासदृशी, विशिष्टतरोक्तीर्यत्रयाद् , अतोऽत्रोदने स्थितिवीर्ये, तत्पळ्यपि प्रयोगसमये स्मृतिः / एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथा भक्तितो यत्र भेदप्रवृत्तेरिति प्रथमगुणस्थानप्रकर्ष एतावानिति समयविदः / इत्थं चोक्तस्य योगदृष्टिसमुच्चयग्रन्धार्थस्यानुसारेण मिथ्यादृष्टीनामपि मि. त्रादिदृष्टियोगेन रायाणस्थानकत्वसिद्धेः, तथाप्रवृत्तेरनाभिग्रहिकरथमेव तेषां शोभनमित्यापन्नम् // 13 // - ननु योगदृष्ट्याऽपि मिथ्यादृशां कथं गुणभाजनत्वम् ! जैनत्वप्राप्ति विना गुणलाभासंभवाद् दृष्टिविपर्यासस्य दोषस्य सत्त्वाद् / अत एवोक्तम् " मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः / मिथ्यात्वं परमशत्रुर्मिथ्यात्वं पदमापदाम् // ". . इत्याशङ्कयाहगलिआसग्गहदोसा अविज्जसविज्जपयगया तेवि। सवण्णुभिचभावा जइत्तणं जंति भावेणं // 14 // .. गलिआसग्गहदोसत्ति / तेलब्धयोगदृष्टयो मिथ्यात्ववन्तोऽवद्यसंवेद्यपद्गता अपि तत्त्वश्रवणपर्यन्तगुणलाभेऽपि कर्मवज्रविभेदलभ्या. नन्तधर्मात्मकवस्तुपरिच्छेदरूपसूक्ष्मबोधाभावेन वेद्यसंवेद्यपदाधस्तनपदस्थिता अपि भावेन जैनत्वं यान्ति वेद्यसंवेद्याः / वेद्यसंवेद्यपदयोलक्षणमिदम् गलितासद्ग्रहदोषा अवेद्यसंवेद्यपदगतास्तेऽपि / सर्वज्ञभृत्यभावाद् यतित्वं यान्ति भावेन // 14 // For Private and Personal Use Only