________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " वेधं संवेद्यते यस्मिन्नपायादिनिबन्धनम् / पदं तद्वद्यसंवेद्यमन्यदेतद्विपर्ययात् / / " इति / अस्यार्थः-वेद्यं वेद्यनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पज्ञानग्राह्यमित्यर्थः / संवेद्यते क्षयोपशमानुरूपं विज्ञायते यस्मिन्नाशयस्थानेऽपाया. दिनिबन्धनं नरकस्वर्गादिकारणं स्यादि तद् वेद्यसंवेद्यपदं निश्चितागमतात्पर्यार्थयोगिनां भवति / अन्यदवेद्यसंवेद्यपदम् , एतद्विपर्ययात्-उक्तलक्षणव्यत्ययात् . स्थूलबुद्धीनां मवति / / __कथं ते भावजैनत्वं यान्ति ? इत्यत्र हेतुमाह-सर्वज्ञभृत्य नावात् सर्वत्र धर्मशास्त्रपुरस्कारेण तद्वकट सहनावामात् / नन्वेनु. च्छिन्ना जैनाः, जैनव्यवस्थाबाटैरपि सनागना सर्वज्ञाभ्युपगलात् तेषामपि जैनत्वप्रसङ्गादित्यतस्तेषां विशेषमाह-गलितासग्रहदोषा इति / येषां स्वसद्ग्रहदोषात्स्वस्वाभ्युपगतार्थपुरस्कारस्तेषां रागद्वेषादिविशिल्पकल्पितसर्वज्ञाभ्युपगन्तृत्वेऽपि न भावजैनत्वम् / येषां तु माध्यस्थावदातबुद्धीनां विप्रतिपत्तिविषयप्रकारांश नामहस्तेषां मुख्य. सर्वज्ञाभ्युपगन्तृत्वाद् भावजैनत्वं स्यादेव इति भावः। मुख्यो हि सर्वज्ञ. स्तावदेक एव निरतिशयगुणवत्त्वेन तत्प्रतिपत्तित्वं यावतां तावर्ता सदक्तत्वमविशिष्टमेव, सर्वविशेषाणां छद्मस्थेनाग्रहाद्दूरासन्नादिमेदस्य च भृत्यत्वजात्यभेदकत्वादिति / तदुक्तं योगदृष्टिसमुच्चये " न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः। मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः॥" सर्वशो नाम यः कश्चित् पारमार्थिक एव हि / स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः // प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् / वे सर्वेऽपि तमापन्ना इति न्यायगतिः परा // विशेषस्तु पुनस्तस्य कात्स्येनासर्वदर्शिभिः / सर्वैर्न ज्ञायते तेन तमापना न कश्चन // तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि / निर्व्यावं तुल्य एवासौ तेनांशेनैव धीमताम् // For Private and Personal Use Only