________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपतप " अपूर्वासमभावेन व्यभिचारवियोगतः / तत्वतोपूर्वमेवेदमिति योमविदो विदुः॥" अस्यां चावस्थायां मिथ्यादृष्टायपि गुणस्थानपदस्य योगार्थघटनापपद्यते / उक्तं च "प्रथमं यद्गुणस्थान सामान्येनोपवर्णितम् / / अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः॥" तारायो तु मनाक् स्पष्टं दर्शनम् , शुभा नियमाः, तत्वजिज्ञासा, योगकथास्थविच्छिन्ना प्रीतिः, भावयोगिषु यथाशक्त्युपचारः उचित‘क्रियाहानिः, स्याचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति / तथास्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनानानाविषमुमुक्षुप्रवृत्तेः कास्न्येन ज्ञातुमशक्यत्वाञ्च शिष्टाचरितमेव पुरस्कृत्य प्रवर्तते / उक्तं च___ " नास्माकं महती प्रज्ञा सुमहान शासविस्तरः / शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा // " पलायां दृष्टौ दृढं दर्शनम् , स्थिरसुखमासनम् , परमा तत्त्वशुश्रूषा, योगगोचरोऽक्षेपः, स्थिरचित्ततया योगसाधनोपायकौशलं च भवति / दीमायां दृष्टौ प्राणायामः, प्रशान्तवाहिता लाभादयोगोत्थानविरहा, सस्वश्रवणम् , प्राणेभ्योऽपि धर्मस्याधिकत्वेन परिज्ञानम् , तत्वश्रवणतो गुरुमक्तेरुद्रेकामापत्त्यादिभेदेन तीर्थदर्शनं च भवति / तथा मित्रादृष्टिस्तृणानिकणोपमा न तावतोऽभीष्टकार्यक्षमा, सम्यक् प्रयोगकालं यावदनवस्थानात् , अल्पवीर्यतया ततः पटुस्मृतिवीजसंस्काराधानामुपपत्तेः, विकलप्रयोगमावाद् भावतो वन्दनादिकार्यायोगादिति / ताराष्टिोमयाग्निकणसहशी, इयमप्युक्तकल्पैव, तत्वतो विशिष्टवीर्यस्थितिविकलवाद / अतोऽपि प्रयोगकाले स्मतिपाटवासिढेः. तह For Private and Personal Use Only