________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 कृत्स्नसंयमस्य जिनपूजायाः साक्षात्करणनिषेधात् , तस्य स्वप्रतिपन्न चारित्रविरोधिपुष्पादिग्रहणरूपेण तत्प्रत्याख्यानेऽप्यकृत्स्नसंयमवतां आद्धानां न तदनौचित्यम् , तथा प्रतिपन्नसम्यग्दर्शनानां स्वप्रतिपन्नसम्यक्त्वप्रतिबन्धकविपर्यासंहतुत्वेनाविशेषमवृत्तः प्रत्याख्यानेऽपि नादिधार्मिकाणां तदनौचित्यमिति विभावनीयम् / __नन्वेवमादिधार्मिकस्य देवादिसाधारणभक्तेः पूर्वसेवायामुचितत्वे जिनपूजावत्साधूनां साक्षात्तदकरणव्यवस्थायामपि तद्वदेवानुमोद्यस्यापत्तिरिति चेद् / न, सामान्यप्रवृत्तिकारणतदुपदेशादिना तदनुमोधताया इष्टत्वात् , केवलं सम्यक्त्वायनुगतं कृत्यं स्वरूपेणाप्यनुमोथमितरच मार्गबीजत्वादिनन्यस्ति विशेष इत्येतचाग्रे सम्यग् विवेचयिव्यामः // 12 // ____ अनाभिग्रहिकस्य शोभनत्वमेव गुणान्तराधायकत्वेन समर्थयतिइत्तो अ गुणहाणं पढमं खलु लडजोगदिट्ठीणं / मिच्छत्तेवि पसिद्धं परमत्थगवेसणपराणं // 13 // इतश्चानाभिग्रहिकस्य हितकारित्वादेव च मिथ्यात्वेऽपि खल्विति निश्चये लब्धयोगदृष्टीनां मित्रादिप्रथमदृष्टिचतुष्टयप्राप्तिमतां परमार्थगवेषणपराणां मोकप्रयोजनानां योगिनां प्रथमं गुणस्थानमन्वर्थ प्रसि. दम् / अयं भावः-मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपात परित्यज्याद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद् यदा संवेगतारतम्यमाप्नुवन्ति तदा मार्गाभिमुख्यात्तेषामिक्षुरस-कवाय-गुडकल्पा मित्रा तारा बला दीमा चेति चतस्रो योगदृष्टय उल्लसंन्ति, भगवत्पतञ्जलिभदन्तभास्करादीनां तदभ्युपगमात् / तत्र मित्रायां दृष्टौं स्वल्पो बोधों यमो योगाङ्गदेवकार्यादावखेदो योगबीजोपादानं भवोद्वेगसिद्धान्तलेखनादिकं बीजश्रुतौ परमश्रद्धा सत्संगमश्च भवति, चरमयथाप्रवृत्तकरणसामर्थ्येन कर्ममलस्याल्पीकृतत्वात् / अत एवेदं चरमयथाप्रवृत्तकरणं परमार्थतोऽपूर्वकरणमेवेति योगविदो विदम्ति / इतथ गुणस्थानं प्रथम खलु लब्धयोगदृष्टीनाम् / मिथ्यात्वेऽपि प्रसिद्ध परमार्थगवेषणपराणाम् // 13 // . . - स For Private and Personal Use Only