________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - इत्तोत्ति / इतः पूर्वोक्तकारणादज्ञातविशेषाणां देवगुर्वादिविशेषपरिज्ञानाभाक्वतां प्राथमिकं धर्ममधिकृत्य-प्रथमारब्धस्थूलधर्ममाश्रित्य पूर्वसेवायां योगप्रासादप्रथमभूमिकोचिताचाररूपायां अनाभिग्रहिकसर्वदेवगुर्वादिश्रद्धानलक्षणं मिथ्यात्वं हितकारि भणितम् , अनुषङ्गतः सद्विषयभक्तिहेतुत्वाद् , अविशेषश्रद्धानस्यापि दशाभेदेन गुणत्वात्। तदुक्तं योगविन्दौअथ देवपूजाविधिमाह-- . " पुष्पैश्च बलिना चैव वस्त्रैः स्तोत्रैश्च शोभनैः। देवानां पूजनं ज्ञेयं शौचश्रद्धासमन्वितम् // " पुष्पैर्जातिशतपत्रकादिसंभवैः, , बलिना पक्वानफलाशुपहाररूपेण, वलैः वसनैः, स्तोत्रैच शोभनैः स्तवनैः, चशब्दाश्चैवशब्दश्च समुच्चयार्थाः / शोभनरादरोपहितत्वेन सुन्दरैर्देवानामाराध्यमानानां पूजन ज्ञेयम् / कीदृशम् / इत्याहशौचश्रद्धासमन्वितम् / शौचेन शरीरवस्त्रद्रव्यव्यवहारशुद्धिरूपेण, श्रद्धया च बहु'मानेन, समन्वितं युक्तमिति / " अविशेषेण सर्वेषामधिमुक्तिवशेन वा / गृहिणां माननीया यत्सर्वे देवा महात्मनाम् // " अविशेषेण साधारणवृत्त्या सर्वेषां-पारगत-सुगत-हर-हरि-हिरण्यगर्भादीनाम् / ' पक्षान्तरमाह-अधिमुक्तिवशेन वा / अथवा यस्य यत्र देवतापामतिशयेन श्रद्धा तदशेन / कुतः ? इत्याह-गृहिणाम्-अद्यपि कुतोऽपि मतिमोहादनिर्णीतदेवताविशेपाणां माननीया-गौरवार्हा यद् यस्मात्सर्वे देवा उक्तरूपाः, महात्मनां परलोकप्रधानतया प्रशस्तात्मनामिति // एतदपि कथम् / इत्याह सर्वान्देवान्नमस्यन्ति नैकं देवं समाश्रिताः।.. जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते / / सर्वान् देवासमस्यन्ति-नमस्कुर्वते / व्यतिरेकमाह-नैक कंचन दैवं समाश्रिताः प्रतिपना घर्तन्ते / येन ते जितेन्द्रिया निगृहीतहषीका जितक्रोधा अभिभूतकोपा दुर्गाणि नरकपातादीनि व्यसनानि, अतितरन्ति अतिकामन्ति. हे सर्वदेवनमस्कारः। For Private and Personal Use Only