SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धनतिलकवेष्टिनो जातस्त्वं वैश्रमणनामा पुत्रः / तत्र च ' स्वजन-धन-भवनयौवन-वनिता-तत्त्वाद्यनित्यमिदमखिलं ज्ञात्वा यत्राणसहं धर्म शरणं भजत लोकाः' इति वचनश्रवणाज्जाता धर्मकरणबुद्धिः केवलम् / साऽपि कुदृष्टिसभवा महापापबुद्धिरेव परमार्थतः संजाता। तद्वशीकृतेन च स्वयंभूनाम्नास्त्रिदण्डिनः शिष्यत्वं प्रतिपनम् / ततस्तदपि मानुषत्वं हारयित्वा व्यावर्तितो भ्रामितः संसारेऽनन्तपुद्गलपरावर्तानिति / ततोऽनन्तकालात्पुनरप्यन्तराऽन्तरा लब्धं मानुषत्वम् , पर न निवृत्ताऽसौ कुधर्मबुद्धिः / शुद्धधर्मश्रवणाभावोऽपि क्वापि सद्गुरुयोगाभावात्क्वचिदालस्यमोहादिहेतुकलापात् / क्वचिच्छुद्धधर्मश्रवणेऽपि तनिवृत्तोऽसौ शून्यतया तदर्थानवधारणात् / क्वचिच्च श्रद्धानेन ततः कुधर्मबुद्धयुपदेशाद्धर्मच्छलेन पशुवधादिमहापापानि कृत्वा भ्रान्तस्तेष्वेवानन्तपुद्गलपराव निति // " तथा श्रावकदिनकृत्यवृत्तावप्युक्तम्-" इह हि सदैव लोकाकाशप्रतिष्ठितानापर्यवसितभक्चक्राख्यपुरोदरविपरिवर्ती जन्तुरनादिवनस्पतिषु सूक्ष्मनिगोदापरपर्यायेष्वनन्तानन्तपुद्गलपरावर्तान्समकाहारोच्छवासनिःश्वासोऽन्तर्मुहूर्तान्तर्जन्ममरणादिवेदनाव्रातमनुभवति इत्यादि / तथा xxxx एवं च तथाविधभव्यजन्तुरप्यनन्तकालमव्यवहारराशौ स्थित्वा कर्मपरिणामनृपादेशात्तथाविधभवितव्यतानियोगेन व्यवहारराशिप्रवेशत उत्कर्षेण वादरनिगोदपृथिव्यप्तेजोवायुषु प्रत्येकं सप्ततिकोटिसागरोपमाणि तिष्ठन्ति / एषा च क्रिया सर्वत्र योज्या / एतेप्वेवं सूक्ष्मेष्वसंख्यलोकाकाशप्रदेशसमा उत्सर्पिण्यवसर्पिण्यः” इत्यादि / ____ पुष्पमालाबृहत्तावप्युक्तम्- ननु कथमित्थं मनुष्यजन्मापिटलम प्रतिपाद्यते ? उच्यते-समाकर्णय कारणम् / " अव्ववहारणिगोएसु ताव चिट्ठति जंतुणो सव्वे / पढमं अणंतपोग्गलपरिअट्टे थावरचेणं // 1 // तत्तो विणिग्गया वि हु ववहारवणस्सइंमि णिवसंति / कालमणंतपमाणं अणंतकायाइभावेणं // 2 // अव्यवहारनिगोदेषु तावत्तिष्ठन्ति जन्तवः सर्वे / प्रथममनन्तपुद्गलपरावर्तान् स्थावरत्वेन / 1 // मतो विनिर्गता अपि च व्यवहारवनस्पती निवसन्ति / कालमनन्तप्रमाणमनन्तकायादिभ्रावेन // 2 // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy