________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्यन्ते / ततोऽहमेक पाटकं कराग्रेण दर्शयता तीव्रमोहोदयेनाभिहितः-भद्र संसारिजीव! तिष्ठ त्वमत्र पाटके। यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यों वर्तते / ततो भविष्यत्यत्र तिष्ठतो धृतिरित्यादि / xxxx ततोऽहं यदा तत्रासंव्यवहारनगरेऽभूवम् , तदा मम जीर्णायां जीर्णायामपसं गुटिकां दत्तवती, केवल सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती / तत्र पुनरेकाक्षनिवासनगरे समागता तीव्रमोहात्यन्तबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोगेण सभानेकाकारं स्वरूपं प्रकटयति स्मेत्यादि / " समयसारसूत्रवृत्त्योरप्युक्तम् "अहवा संक्वहारिया य असंववहारिया य / " अथवेंति द्वैविध्यस्यैव प्रकारान्तरोद्दयोतने / एतदेव स्पष्टयन्नाह तत्थ जे अणाइकालाओ आरब्भ सुहुमणिगोएसु चिति न कयाइ तसाइ.. भावं. पत्ता ते असंववहारिया / जे पुण सुहुमणिगोएहितो निग्गया सेसजीवेसु उप्पना ते संववहारिआ। ते. अ पुणोवि सुहमणिगोअपत्तावि संववहारिअच्चिय, भण्णंति // " . इदमत्र हृययम्-सर्वसंसारिणां प्रथममनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावस्थानम् , तेभ्यश्च निर्गताः शेषजीवेषूत्पन्नाः पृथिव्यादिव्यवहारयोगात्सांव्यबारिकाः। ते च. यद्यपि कदाचिद् भूयोऽपि नेष्वेव निगोदेषु गच्छन्ति, परं तत्रापि.सांव्यवहारिका एव, व्यवहारपतितत्वात् / ये तु न कदाचित्तेभ्यो निर्गताः / ".अत्थि अणंता जीवा जेहिं ण पत्तों तसाइ परिणामो / तेवि अणंताणंता णिगोअवासं अणुहवंति // "1 अथवा सांध्यवहारिकाचालांव्यवहारिकाश्च // 2 तत्र ये अनादिकालादारभ्य सूक्ष्मनिगोदेषु तिष्ठन्ति, न कदाचिद् प्रसादिभावं प्राप्ता ते असांव्यवहारिकाः / ये पुनः सूक्ष्मनिगोदेभ्यो निर्गता शेषजीवेषूस्पन्नास्ते सांव्यवहारिकाः। ते. च. पुनरपि सूक्ष्मनिमोदप्राप्ता अपि सांव्यवहारिका एव भण्यन्ते। सन्त्यनन्ता जीवा यैर्नप्राप्तस्त्रसादिपरिणामः / तेयमन्तान्ता निगोदवासमनुभवन्ति // .. For Private and Personal Use Only