________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसारिजीवसंज्ञन वास्तव्येन कुटुंबिना / कालो निर्गमितः पूर्व तत्रानन्तो मयाऽपि हि // 74 / / लथा अत्रैव कियदन्तरे तत्रैकाक्षनिवासाख्ये नगरे प्रथम खलु / अमीभिरस्ति गन्तव्यमर्थनं युवयोश्च तत् / / 26 n ताभ्यामपि तथेत्युक्ते ते सर्वे तत्पुरं ययुः / तस्मिंश्च नगरे सन्ति महान्तः पश्च पाटकाः // 27 // एक पाटकमङ्गुल्या दर्शयन्नग्रतः स्थितम् / . मामेवमथ तत्त्वंपि (?) तीव्रमोहोदयोऽब्रवीत् // 28 // स्वमत्र पाटके तिष्ठ भद्र ! विश्वस्तमानसः / पाश्चात्यपुरतुल्यत्वाद् भाव्येष धृतिदस्तव / / 29 // 'यथा हि तत्र प्रासादगर्भागारस्थिताः जनाः / सन्त्यनन्ता पिण्डिताङ्गास्तथैवात्रापि पाटके // 30 // वर्त्तन्ते किन्तु ते लोकव्यवहारपराङ्मुखाः। . मनिषिभिः समानातास्तेनासांव्यवहारिकाः // 31 // गमागमादिकं लोकव्यवहारममी पुनः। कुर्वन्ति सर्पदा तेन प्रोक्ताः सांव्यवहारिकाः // 32 // अनादिवनस्पतय इति तेषां समाभिधा / एषां तु वनस्पतय इति भेदयथापरः // 33 // " वृद्धापमितभवप्रपञ्चग्रन्थेऽप्येवमेवोक्तमस्ति / तथाहि " अस्तीह लोके आकालप्रतिष्ठमनन्तजनसंकुलमसंव्यवहारं माम नगरम् / तत्र सर्वस्मिन्नगरेऽनादिवनस्पतिनामानः कुलपुत्रकाः प्रतिवसन्ति इत्यादि / xxx उक्तौ च भवितव्यतया महत्तराबलाधिकृतौ-यदुत मया युवाभ्यां चामीभिः सह यातव्यम् / यतो भर्तृदेवतानारीति न भोक्तव्यो मया संसारी जीवः / यच्चास्ति युवयोरपि प्रतिजागरणीयमेकाक्षनिवासं नाम नगरम् / तत्रामीभिर्लोकः प्रथमं गन्तव्यम् / सतो युज्यते युवाभ्यां सह चामीषां तत्रासितुं नान्यथा / ततो यद्भवती जानातीत्यभिधाय प्रतिपन्नं तद्वचनम् / महत्तमबलाधिकृताभ्यां प्रवृत्ताः सर्वेऽपि समागतास्तदेकाक्षनिवासं नगरम / तत्र नगरे महान्तः पञ्च पाटका For Private and Personal Use Only