________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्थामुपगता एवावतिष्ठन्ते से व्यवहारपथातीतत्वादसांव्यवहारिकाः इति वचनादनादिवनस्पतीनामेवाव्यावहारिकत्वाभिधानात् / तत्रेद सूत्रं सांव्यवहारिकानधिकृत्यावसेयम् , न चासांव्यवहारिकान् , विशेष विषयत्वारसूत्रस्य / न चैतत्स्वमनिषिकाविजृम्भितम् / यत आहुर्जिन भद्रगणिक्षमाश्रमणपूज्यपादाः “तह कायठिईकालादओवि सेसे पडुच्च किर जीवे / .. नाणाइवणस्सइणो ये संववहारवाहिरिया // " अत्रादिशब्दात्सर्वैरपि जीः श्रुतमनन्तशः स्पृष्टमित्यादि / यदस्थामेव प्रज्ञापनायामेव वक्ष्यते, प्रागुक्तं च तत्परिग्रहस्ततो न कश्चिदोष इति, अग्रे व्यक्तमेव अनादिवनस्पत्यतिरिक्तानां व्यावहारिकत्वाभिधानाच / अनादिवनस्पतय इति सूक्ष्मनिगोदानामेवाभिधानम् , न तु बादरनिगोदानामिति प्रथान्तरेऽप्ययमेवाभिप्रायो ज्ञायते / उक्तं चलघूपमितभवप्रपश्चग्रन्थे श्रीचन्द्रसूरिशिष्यश्रीदेवचन्द्रसूरिभिः " अस्त्यत्र लोके विख्यातमनन्तजनसंकुलम् / यथार्थनामकमसंव्यवहाराभिधं पुरम् // 67 // तत्रानादिवनस्पतिनामानः कुलपुत्रकाः। चसन्ति तत्र कर्मपरिणाममहीभुजा // 68 // नियुक्तौ तीबमोहोदयात्यन्ताबोधनामको / महत्तमबलाध्यक्षौ तिष्ठतः स्थायिनौ सदा // 69 // युग्मम् ताभ्यां कर्मपरिणाममहाराजस्य शासनात् / निगोदाख्यापवरकेष्वसंख्येयेषु दिवानिशम् // 70 // क्षिप्त्वा संपिण्ड्य धार्यन्ते सर्वेऽपि कुलपुत्रकाः। प्रसुप्तवन्मूर्छितवन्मचवन्मृतवञ्च ते // 71 // युग्मम् से स्पष्टचेष्टाचैतन्यभाषादिगुणवर्जिताः। छेदभेदप्रतीघातदाहादीनाप्नुवन्ति च // 72 / / अपरस्थानमनप्रमुखो नापि कश्चन / क्रियतेऽन्योऽमि तेर्लोकव्यवहारः कदाचनः॥ 73 // सथा कायस्थितिकालादयोऽपि शेषान् प्रतीस्य फिल जीवान् / मानादिवनस्पते. ये संव्यवहारवाहाः // For Private and Personal Use Only