________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हारविषयः, प्रत्येकशरीरवत्त्वादिस्तल्लक्षणस्याभव्येष्वपि सत्वादनन्तद्रव्यक्रियाग्रहणपरित्यागवतां तेषामव्यावहारिकराशिविनिर्गतत्वेन व्यावहारिकत्वस्योपदेशपदमसिद्धत्वाश्च / तथा च तद्ग्रन्थः “जे दवलिंगकिरियाणंतातीया भवमि सगलावि / सम्वेसि पाएणं ण य तत्थवि जायमेति // " जमित्यादि / यद् यस्माद्रव्यलिङ्गक्रियाः पूजाघभिलाषेण / व्यावृत्तमिथ्यास्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किम् ? इत्याह-अनन्ता अनन्तनामकसंख्याविशेषानुगता व्यतिक्रान्ता भवे संसारे, सकला अपि-तथाविधसामग्रीवशात्परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण अव्यावहारिकराशिगतानल्पकालंतभिर्गतांश्च मुक्त्वेत्यर्थः / ततोऽपि किम् ? इत्याह-न च-नैव तत्रापि तास्वपि सकलासु द्रन्यलिङ्गक्रियासु जातमेतद्-धर्मपीवमित्यादि // " अथ पृथिव्यादिव्यवहारयोगेन तेषां ध्यावहारिकत्वेऽप्यावलिकाऽसंख्येयभागपुद्गलपरावाधिकसंसारवत्त्वेन न व्यावहारिकत्वमिति परिभाषान्तरमाश्रीयते इति द्वितीयः पक्षः परिगृह्यते इति चेत् , परिगृयतां यदि बहुश्रुताः प्रमाणयन्ति, नैवमस्माकं काऽपि क्षतिः, मुख्यव्यावहारिकलक्षणपरित्यागेन तेषामव्यक्तमिथ्यात्वनियमाभ्युपगमादिविरुद्धप्रक्रियाया असिद्धेः। नहि परिभाषा वस्तुस्वरूपं त्याजयतीति / एतेन बादरनिगोदजीवानां व्यावहारिकत्वनिषेधोऽपि प्रत्युक्तः, परिभाषामात्रण लक्षणसिद्धस्य व्यावहारिकत्वस्य निषेद्धमशक्यत्वात् / पृथिव्यादिविविधव्यवहारयोगित्वलक्षणस्य तस्य प्राप्तसूक्ष्मनिगोदेतरत्वपर्यवसितस्यानुगतस्यानादिसूक्ष्मनिगोदेतरसर्वजीववृत्तित्वात्। चक्षुग्रायशरीरत्वरूपलक्षणं न तु लक्षणमित्यावयोः समानम् , अन्यथाsस्माकं सूक्ष्मपृथिवीकायिकादिष्वव्याप्तेरिव तव मते बादरनिगोदेति. व्याप्तेरपि प्रसङ्गात् / किं च-प्रज्ञापनावृत्त्यभिप्रायेणापि बादरनिगोदजीवानां व्यवहारित्वमेव प्रतीयते। ये पुनरनादिकालादारभ्यनिगोदा. यद्न्यलिङ्गक्रिया अनन्ताऽतीता भवे सकलाऽपि सर्वेषां प्रायेण न च तत्रापि जातमेतदिति // For Private and Personal Use Only