________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्ष्मा बादराश्च निगोदजीवा अव्यवहारिण एव, अन्यथा व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वानुपपत्तेः। अपर्यवसितत्वं च "सिझंति जचिया किर०" इत्यादिना सिद्धम् , तथा सांव्यवहारिका जीवाः सिध्यन्त्येव, आवलिकाऽसंख्येयभागपुद्गलपरावर्तसमयपरिमाणत्वेन परिमितत्वाद् / व्यतिरेके सिद्धा निगोदजीवाश्च दृष्टान्ततया पाच्या इति / . ननु " सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा सूक्ष्माःनिगोद एवान्त्याः, ते येन्ये व्यवहारिगः" इति योगशास्त्रवृत्तिवचनाद्धादरनिगादीवाना व्यवहारित्वसिद्धेः कथमव्यवहारित्वमिति चेत् / न, तत्र 'सूक्ष्मनिगोदा एवान्त्याः' इति पाठस्थापि दर्शनात् तत्र सूक्ष्माश्च निगोदाश्चेतीतरेतरद्वन्द्वकरणेऽसंगतिगन्धस्याप्यभावाद् / सूक्ष्मपृथिव्यादिजीवानां पाव्यवहारित्वं प्रज्ञापनावृत्यभिप्रायेण स्फुटमेव प्रतीयते, लोकदृष्टिपथमागतानामेव पृथिव्यादिजीवानां व्यवहारित्वभणनाद् , अन्यथा 'प्रत्येकशरीरिणो व्यावहारिकाः' इत्येव वृत्तिकृदवक्ष्यत् / यच्च केवलं निगोदेभ्य उद्वृत्य पृथिवीकायिकादिभवेषु वर्तन्ते इत्यादि भणितम् , तत्सूक्ष्मपृथिव्यादिजीवानामसंख्येयत्वेनाल्पत्वाद् अवश्यभाविव्यवहारित्वाद्वाविवक्षणादिति संभाव्यते, सम्यग्निश्चयस्तु बहुश्रुतगम्य इति / एवं चासांव्यवहारिका जीवाः सूक्ष्मपृथिव्यादिषु निगोदेषु च सर्वकालं गत्यागतीः कुर्वन्तीति संपन्नम् / इत्थं च तत्र येऽनादिसूक्ष्मनिगोदेभ्य उदृत्य शेषजीवेषूत्पद्यन्ते पृथिव्यादिविविधव्यवहारयोगात्सांव्यवहारिकाः। ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते तथाविधव्यवहारातीतत्वादसांव्यवहारिका इति / प्रवचनसारोद्धारकृत्तावपि " अनादिसूक्ष्मनिगोदजीवा अव्यवहारिणः” इत्यत्र सूक्ष्मा पृथिव्यादयश्चत्वारो निगोदाश्च बादरसाधारणवनस्पतयः, न विद्यते आदिर्येषां तेऽनादय:अप्राप्तव्यवहारराशय इत्यर्थः / तथा च सूक्ष्माश्च निगोदजीवाश्चेति द्वन्द्वः, अनादयश्च ते सूक्ष्मनिगोदजीवाश्चेति कर्मधारयः, इति समासविधिद्रष्टव्यः / सर्वत्रापि कर्मधारयकरणे बादरनिगोदजीवानां व्यवहारित्वसंपत्तायुक्तागमवाधप्रसङ्गादिति चेत् / उच्यते-एवं प्रज्ञापनावृत्त्यभिप्रायमनुसृत्याभव्यानामव्यावहारिकत्वं व्यवस्थाप्यते, तत्किं व्यावहारिकलक्षणयोगादुत परिभाषान्तराश्रयणात् ? नाद्या लोकव्यव For Private and Personal Use Only