________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततोऽभव्या अव्यावहारिका एव, अन्यथाऽसंख्येयपुद्गलपरावर्तकालातिक्रमे तेषां सिद्धिगमनस्याव्यवहारित्वभवनस्य वा प्रसङ्गाद् / अत एव चादरनिगोदजीवा अप्यव्यावहारिकराशावभ्युपगन्तव्याः, अन्यथा पादरनिगोदजीवेभ्यः सिद्धानामनन्तगुणत्वप्रसङ्गात् / यावन्तो हि सांव्यवहारिकराशितः सिध्यन्ति, तावन्त एव जीवा असांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति / यत उक्तम् " सिझंति जत्तिया किर इह संववहारजीवरासीओ। इंति अणाइवणस्सइमज्झाओ तत्तिया चेव // " इति / एवं च व्यवहारराशितः सिद्धा अनन्तगुणा एवोक्ताः। तत्र यदि बादरनिगोदजीवानां व्यावहारिकत्वं भवति, तर्हि बादरनिगोदजीवेश्यः सिद्धा अनन्तगुणाः संपद्यरन , सन्ति च सिद्धेभ्यो बादरनिगादजीवा अनन्तगुणाः, तेभ्यः सूक्ष्मजीवा असंख्येयगुणाः। यदागमः___ " एएसिं णं भंते ! जीवाणं सुडमाणं वायराणं णोसुहुमाणं णोबायराणं कयरेकयरेहितो अप्पा वा, बहुआ वा, तुल्ला वा, विसेसाहिआ वा ? / गोयमा ! सक्वथोवा जीवा जोसुहुमा णोबायरा, बायरा अणंतगुणा, सुहुमा असंखेजगुणा" इति / एतद्वृत्तिर्यथा-"एएसि पं भंते ! जीवाणं सुहुमाणमित्यादि / सर्वस्तोका जीवा योसुहुमा णोबायरा, सिद्धा इत्यर्थः, तेषां सूक्ष्मजीवराशे दरजीवराशेश्शनन्ततमभागकल्पत्वात् / तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽ नन्तगुणत्वात् / तेभ्यश्च सूक्ष्मा असंख्येयगुणाः, बादरनिगोदजीवेभ्यः सूक्ष्मनिगोदजीवानामसंख्येयगुणत्वाद् " इति / तत एवमागमवाधापरिहारार्थ वादरनिगोदजीवा अव्यावहारिकाः स्वीकर्तव्याः। प्रयोगश्चात्र-बादरनिगोदजीवा न व्यवहारिणः, तेषां . सिद्धेभ्योऽनन्तगुणत्वात् / यथा सूक्ष्मनिगोदजीवास्तथा अनादिमन्तः सिध्यन्ति यावन्तः किल इह संव्यवहारजीवराशितः। यन्ति अनादिवनस्पतिमध्यात्तावन्त एव // 2 एतेषां भगवन् जीवानां सूक्ष्मानां बादराणां नोसूक्ष्माणां नोबादराणां (सिद्धानां) फतरे कतरेभ्योऽल्या वा बहवो वा तुल्या वा विशेषाधिका वा ? / गौतम ! सर्पस्तोका जीवा नोसूक्ष्मा नोबादराः, बादरा अनन्तगुणा, सूक्ष्मा असंख्येयगुणा इति। For Private and Personal Use Only