________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न चैतदस्ति, वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभच्यासिद्धेर्मोक्षपथाव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात्। उच्यते-इह द्विविधा जीवाः-सांव्यवहारिका असांव्यवहारिकाश्च / तत्र ये निगोदावस्थात उद्धृत्त्य पृथिवीकायिकादिभवेषु वर्तन्ते ते लोकेषु दृष्टिपथमागताःसन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति सांव्यवहारिका उच्यन्ते। ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथापि ते सांव्यवहारिका एव, संव्यवहारपतितत्वात् / ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतस्वादसांव्यवहारिकाः / कथमेतदवसीयते / द्विविधा जीवाः-सांव्यवहारिका असांव्यवहारिकाम्येति उच्यते युक्तिवशात् / इह प्रत्युपत्रपनस्पतीनामपि निर्लेपनमागमे प्रतिषिद्धम् , किं पुनः सकलवनस्पतीनां सथामव्यानामपि / तच यद्यसांव्यवहारिकराशिनिपतिता अत्यन्तबनस्पतयो न स्युस्ततः कथमुपपद्यत / तस्मादवसीयते-अस्त्वसांव्यवहारिकराशिरिति, यदुगतानां वनस्पतीनामनादिता / किं च-यमपि गाथा गुरूपदेशादागता समये प्रसिद्धा " अस्थि अणंता जीवा जेहिं ण पत्तो तसाइपरिणामो। तेवि गंताणंता णिगोअवासं अणुहवंति // " तत इतोऽप्यसांव्यवहारिकराशिसिद्धिः / उक्तं च "णेय पच्चुपत्रवाणस्सईणं पिल्लेवणं न भव्याणं / जुत्तं होइ ण तं बह अचंतवणस्सई नत्ति // एवं चाणाइवणस्सईण मत्थित्तमत्थओ सिद्धं / मण्णइ इमावि गाहा गुरूवएसागया समए / " अवि अणंता जीवा' इत्यादि 18 पदे // " सन्स्यनन्ता जीवा यैर्न प्राप्तः प्रसादिपरिणामः। तेऽप्यनन्तानम्ता निगोदवासमनुभवन्ति // न च प्रत्युत्पन्नवनस्पातीनां निर्लेपनं न भन्यानाम् / युक्तं भवति तद यादे अत्यन्तवनस्पति स्ति। एवं चानादिवनस्पतनामस्तित्वमर्थतः सिखम् / भाप इयमपि गाया गुरूपदेशागता समये // ... .. .. . . For Private and Personal Use Only