________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जंड पुग्गलपरिअट्टा संखाइआ वणस्सई कालो / तो अचंतवणस्सइजीवो कह नाम मरुदेवी 1 // हुन्ज व वणस्सईणं अणाइअन्तमत एव हेऊओ। जमसंखेज्जा पोग्गलपरिअट्टा तत्थवत्थाणं // कालेणेवइएणं तम्हा कुव्वंति कायपल्लटुं / सव्वेवि वणस्सइणो ठिइकालंते जह सुराई // किंच-एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धम् , तदपीदानी प्रसक्तं कथम् ? इति चेद् / उच्यते-इह प्रतिसमयमसंख्पेया घनस्पतिभ्यो जीवा उद्वर्तन्ते, वनस्पतीनां च कायपरिमाणमसंख्येयाः पुद्गलपरावर्ताः, ततो यावन्तोऽसंख्येयेषु पुद्गलपरावर्तेषु समयास्तैरभ्यस्ता एकसमयोवृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पती. नाम् / ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपनम् , प्रतिनियतपरिमाणत्वाद् , एवं गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, सत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात् / आह च " कायठिई कालेणं तेसिमसंखिज्जयावहारेणं / जिल्लेवणमावण्णं सिद्धीवि य सब्वभव्वाणं // पइसमयमसंखिज्जा जेणुव्वदृति तो तदभत्था / कायठिईए समया वणस्सईणे परिमाणं / / " यदि पुनलपरावर्ताः संख्यातिसा वनस्पतिकाला। ततोऽत्यन्तवनस्पतिजीवाः कथं नाम मरुदेवी॥ भवेद्वा वनस्पतीनामनाद्यन्तमत एव हेतोः / यदसंख्येया पुद्गलपरावर्तास्तत्रावस्थानम् // कालेनैतावता तस्मात्कुर्वन्ति कायपर्यस्तम् / सर्वेऽपि वनस्पतयः स्थितिकालान्ते यथा सुरादिः // कायस्थितिः कालेन तेषामसंख्येयताऽपहारेण / निर्लेपनमापनं सिद्धिरपि च सर्वभव्यानाम् // प्रतिसमयमसंख्येया येनोद्वर्तन्ते ततस्तदभ्यस्ता / कायस्थित्या समया वनस्पतीनां परिमाणम् // For Private and Personal Use Only