________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रवर्तनाभ्यामेव लीलयैव व्यावृत्त्य विधृतोऽनन्तपुद्गलपरावर्तान्" इत्यादिनामहता अन्थेन भुवनभानु केवलिचरित्रादौ व्यावहारिकत्वमुपेयुषोऽपि संसारिजीवस्य विचित्रभवान्तरिततयाऽनन्तपुद्गलपरावर्तभ्रमणस्य निगदसिद्धस्वात् / तथा योगबिन्दुसूत्रवृत्तावपि नरनारकादिभावेनानादौ संसारेऽ नन्तपुद्गलपरावर्तभ्रमणस्वाभाव्यमुक्तम् / तथाहि " अनादिरेष संसारों नानागर्तिसमाश्रयः। पुद्गलानां परावर्ता अत्रानन्तास्तथा मताः / / अनादिरविद्यमानमूलारम्भ एष प्रत्यक्षतो दृश्यमानः संसारो भवः, कीदृशः? इत्याह--नानागतिसमाश्रयः-नरनारकादिविचित्रपर्यायपात्रं वर्तते / ततश्च पुद्गलानामौदारिकादिवर्गगारूपाणां सर्वेषां परावर्ता ग्रहणमोक्षात्मका अत्र संसारेऽ नन्त वारस्वभावाः, तथा तेन--समयप्रसिद्धप्रकारेण गता अतीताः / केषाम् ?' इत्याह सर्वेषामेव सत्त्वानां तत्स्वाभाव्यनियोगतः / / नान्यथा संविदे तेषां सूक्ष्मबुद्धया विभाव्यताम् // सर्वेषामेव सत्त्वानां प्राणिनां तत्स्वाभाव्यम्-अनन्तपुद्गलपरावर्तपरिभ्रमण-- स्वभावता तस्य नियोगो व्यापारस्तस्माद् / अव व्यतिरेकमाह-न नैव अन्यथा- तत्स्वाभाव्यनियोगमन्तरेण संविद् अवबोधो घटते / एतेषामनन्तपुद्गलपरावर्तानां सूक्ष्मबुद्ध्या निपुणाभोगेन विभाव्यताम्-अनुविचिन्त्यतामेतद् / इति व्यावहारिकत्वेऽप्यनन्तपुद्गलपरावर्तभ्रमणसंभवात् , तेनाभव्यानामव्यावहारिकत्वसाधनमसंगतमिति द्रष्टव्यम् // ननु प्रज्ञापनावृत्ती व्यावहारिकरणामुत्कर्षतोऽप्यावलिकाऽसंख्येयभागपुद्गलपरावर्तस्थितिः, तत ऊर्ध्वं चावश्यं सिद्धिरिति स्फुटं प्रतीयते / तथा च तद्ग्रन्थः-" ननु यदि वनस्पतिकालप्रमाणमसंख्येयाः पुद्गलपरावर्तास्ततो यद्गीयते सिद्धान्ते “मरुदेवीजीवो यावजीवभावं वनस्पतिरासीद्" इति तत्कथं स्यात् ? कथं वा क्नस्पतीनामनादित्वम् ?, प्रतिनियतकालप्रमाणतया वनस्पतिभावस्यानादित्वविरोधात् / तथाहि-असंख्येयाः पुद्गलपरावर्तास्तेषामेव स्थानमानम् , तत एतावति कालेतिक्रान्ते नियमात्सर्वेऽपि कायपरावर्त कुर्वते, यथा स्वस्थितिकाले सुरादयः / उक्तं च For Private and Personal Use Only