________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... अत एवोत्कृष्टो वनस्पतिकालोऽपि प्रवचने व्यावहारिकापक्षय. चोक्तः। तथाहि " वणस्सइकाइआणं पुच्छा, जहण्णेणं अंतोमुहुत्तं उकोसेणं अणंतं कालं'अगंता उस्सप्पिणिओसप्पिणीओ कालओ, खित्तओ अगंता लोगा असंखेज्जा पुग्गलपरिअट्टा" इति / इदमेव चाभिप्रेत्यास्माभिरुक्तम् " ववहारीणं णियमा संसारो जेसि हुज्ज उक्कोसो। तेसिं आवलिअअसंखभागसमपोग्गलपरट्टा // " इत्यस्मन्मतमदुष्टमिति चेत् / नायमप्येकान्तः, अनन्तपुछलपराचतकालस्थायित्वेनाव्यवहारिवासिद्धेः, व्यावहारिकाणामप्याबलिकासंख्येयभागपुद्गलपरावर्तान्तरितभूयोभवभ्रमणेनानन्तपुद्गलपरावर्तावस्थानस्यापि संभवात् / तदुक्तं संग्रहणीवृत्ती-- " एते च निगोदे वर्तमाना जीवा द्विधा-सांव्यवहारिका असांव्यवहारिकाश्च / तत्र ये सांव्यवहारिफास्ते निगोदेभ्य उद्धृत्य शेषजीवराशिमध्ये समुत्पद्यन्ते, तेभ्य उद्धृत्य केचिद् भूशोऽपि निगोदमध्ये समागच्छन्ति, तत्राप्युत्कर्षत आवालिकाऽसंख्येयभागगतसमप्रमाणान् पुद्गलपरावर्तान स्थित्वा भूयोऽपि शेषजीवेषु समागच्छन्ति, एवं भूयो भूयः सा व्यवहारिकजीवा गत्यागतीः कुर्वन्तीति"। यत्पुनरत्र भूयो भूयः परिभ्रमणेऽप्पु तासंख्येयपुद्धलपरावर्तानतिक्रम एव, आवलिकाऽसंख्येयभागयुद्गलपरावर्तानामसंख्यातगुणानामप्यसंख्यातत्वमेवेति प्रतीतो कुतः भूयो भूयः शब्दाभ्यामानन्त्यकल्पनाया गन्धोऽपि, तेन भूयो भयः परिभ्रमणेऽपसंख्यातत्वं तदवस्थमेव / अतस्तावता कालेन व्यावहारिकाणां सर्वेषामपि सिद्धिर्भणितेति परेण स्वमतं समाहितम् , तदपि नैकान्तरमणीयम् / एवं " विकलेन्द्रियैकेन्द्रियेषु गतागतैरनन्तान् पुद्गलपरावनि निरुद्धोऽतिदुःखितः" इत्यादिना " अन्यदा च कथमपि नीतोऽसावार्यदेशोद्भवमातङ्गेषु, तेभ्योऽप्यभक्ष्यभक्षणादिभिर्नरकपातादिक्रमेण रसगृद्धयकार्य 1 वनस्पतिकायिकानां प्रश्नः, जघन्येन अन्तर्मुहूर्तमुत्कृष्टनानन्तं कालम्-अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रत अनन्ता लोका असंख्येया पुद्गलपरिवहति। व्यावहारिकाणां नियमात्संसारो येषां भवेदुत्कृष्टः / तेषामावलिकासंख्यभागसमपद्रलपरावर्ताः // For Private and Personal Use Only