SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25 पसन्नपि न मार्गगामी न योन्मार्गगामीति व्यपदिश्यते, किन्तु गृहान्निर्गतः समीहितनगराभिमुखं गच्छन् मार्गगामी, अन्यथा तून्मार्गगामीति प्यपदिश्यते / एवं तथाभव्यत्वयोगेनानादिमिथ्यात्वान्निर्गतो यदि जैनमार्गमाश्रयते तदा मार्गगामी, जैनमार्गस्यैव मोक्षमार्गत्वाद् / यदि च शाक्यादिदर्शनं जमाल्यादिदर्शनं वाऽऽश्रयते तदोन्मार्गगामीति ध्यपदिश्यते, तदीयदर्शनस्य संसारमार्गत्वेन मोक्षं प्रत्युन्मार्गभूतत्वादिति स्वकल्पितप्रक्रियापेक्षयाऽचरमपुद्गलपरावर्तवर्तिनः शाक्यादयोऽपि नोन्मार्गगामिनो स्युरिति, “कुप्पवयणपासंडी सव्वे उम्मग्गपडिया" इत्यादि प्रवचनविरोधः / किं च-एवं धर्मधिया विरुद्धक्रियाकरणादुन्मार्गगामित्वं यथा व्यक्तमिथ्यात्वोपष्टम्भाच्चरमपुद्गलपरावर्त एव तथा धर्मधिया हिंसाकरणाद्धिंसकत्वमपि तदैवेत्यचरमपुद्गलपरावर्तेषु हिंसकस्वादिकमपि न स्यादिति सर्वत्र त्रैराशिकमतानुसरणे जैनप्रक्रियाया मूलत एव विलोपापत्तेर्महदसमञ्जसम् / तस्मादभव्यानामपि दूरभव्यामामिव योग्यतानुसारेणाभिग्रहिकव्यक्तमिथ्यात्वोपगमे न दोष इति मन्तव्यम् / अथाभव्या अव्यक्तमिथ्यात्ववन्तः, अव्यवहारित्वात् , संप्रतिपन्ननिगोदजीववद्-इत्यनुमानात्तेषामव्यक्तमिथ्यात्वसिद्धिः। अव्यवहारिस्वं च तेषामनन्तपुद्गलपरावर्तकालस्थायित्वात् सिध्यति / व्यावहारिकाणामुत्कृष्टसंसारस्यावलिकासंख्येयभागपुद्गलपरावर्तमानत्वात् / तदुक्तं कायस्थितिस्तोत्रे " अव्वहारियमज्झे भमिऊण अणंतपुग्गलपरहे। कहवि ववहाररासि संपत्तो नाह तत्थवि य / उक्कोसं तिरियगई-असण्णि-एगिदि-यण-पापुंसेसु / भमिओ आवलिअअसंखभागसमयपुग्गलपरट्टे // " ... अव्यवहारिकमध्ये भ्रान्त्वाऽनन्तपुरलपरावर्तान् / कथमपि व्यवहारराशिं संप्राप्तो नाथ ! तत्रापि च // उत्कृष्टं तिर्यग्गत्यसंश्येकेन्द्रिय-वण-नपुंसकेषु / भ्रान्त आवलिकाऽसंख्यभागसमयपुद्गलपरावर्तान् / For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy