________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति गुणस्थानककनारोह सूत्रवृत्त्यनुसारेणाभत्र्यानां व्यस्नमा मिथ्यात्वं भवतीत्यापातशाऽपि व्यक्तमेव प्रतीयते / अपि का पालकसंबनकादीनां प्रवचनात्प्रत्यनीकानामुदीर्णव्यक्ततरमिथ्यात्वमोहनीयोदयानामेव समुद्भूता नानाविधाः कुविकल्पाः श्रयन्ते / किं च-मोक्षकारणे धर्ने एकान्तभवकारणत्वेनाधर्मश्रद्धानरूपं मिथ्यात्वमपि तेषां लब्ध्याद्यर्थं गृहीतप्रवज्यानां व्यक्तमेव / यत्युनरुच्यते-तेषां कदाचिस्कुलाचारवशेन व्यवहारतो व्यक्तमिथ्यात्वे सम्यक्त्वे वा सत्यपि निश्चयतः सर्वकालमनाभोगमिथ्यात्वमेव भवतीति / तदभिनिवेशविजम्भितम् , शुद्धन्यप्रतिपत्त्यभावापेक्षया निश्चयेनानाभोगाभ्युपगमे आभिग्रहिकादिस्थलेऽपि तत्प्रसङ्गाद् , बहिरन्तय॑क्ताव्यक्तोपयोगद्वयाभ्युपगमस्य चापसिद्धान्तकलङ्कदूषितत्वाद् / __ अथ यदेकपुद्गलावशेषसंसारस्य क्रियावादित्वाभिव्यञ्जकं धर्मधिया क्रियारुचिनिमित्तं तन्मिथ्यात्वं व्यक्तम् / यदुक्तम्" तेसुवि एगो पुग्गलपरिअट्टो जेसि हुअ संसारो / तहमव्वत्ता तेसिं केसिंचि होइ किरियरुई // तीए फिरियाकरणं लिंगं पुण होइ धन्मबुद्धीए / किरियाईणिमित्तं जं वुत्तं वत्तमिच्छति // ". ततोऽन्यवाव्यक्तं मिथ्यात्वम् / न चाभव्यस्य कदाप्येकपुद्गलपरापावशेषः संसार इति सदैव तस्याव्यक्तं मिथ्यात्वमवस्थितमिति चेत्, मैवम् , एवं सति चरमपुद्गलपरावर्तातिरिक्तपुद्गलपरावर्तवर्तिनां भव्यानामप्यव्यक्तानाभोगमिथ्यात्वव्यवस्थितावाभिग्रहिकमिथ्यात्वोच्छेदप्रसङ्गात् / किं च-एवमनाभोगमिथ्यात्वे वर्तमाना जीवा न मार्गगामिनो नवोन्मार्गगामिनो भवन्ति, अनाभोगमिथ्यात्वस्यानादिमत्वेन सर्वेषामपि जीवानां निजगृहकल्पत्वाद् / लोकोऽपि निजगृहे भूयःकालं तेष्वपि एको पुद्गलपरावर्तो येषां भवेत्संसारः / तथाभव्यता तेषां केषांचिद् भवेत्क्रियारुचिः // तया क्रियाकरणं लिङ्गं पुनर्भवति धर्मबुद्धया। क्रियारुचिनिमित्तं यदुक्तं व्यक्तमिथ्यात्वमिति // For Private and Personal Use Only