SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवद्वचनप्रामाण्यसंशयप्रयुक्तः शास्त्रार्थसंशयः सांशयिकम् / यथा सर्वाणि दर्शनानि प्रमाणं कामिचिद्वा, इदं भगवद्वचनं प्रमाणं नवेत्यादि / संशयानां मिथ्यात्वप्रदेशोदयनिष्पन्नानां साधूनामपि सूक्ष्मार्थसंशयानां मिथ्यात्वभावो मा प्रासाङ्क्षीदिति भगवद्वचनप्रामाण्यसंशयप्रयुक्तत्वं विशेषणम् / ते च नैवंभूताः, किन्तु भगवद्वचनप्रामाण्यज्ञाननिवर्तनीयाः, सूक्ष्मार्थादिसंशये सति " तमेव सञ्चं णीसंकं जं जिणेहिं पवेइयं " इत्याद्यागमोदितभगवद्वचनप्रामाण्यपुरस्कारेण तदुद्वारस्यैव साध्वाचारत्वात् / या तु शङ्का साधूनामपि स्वरसवाहितया न निवर्तते सा सांशयिकमिथ्यात्वरूपा सत्यनाचारापादिकैव / अट एव काङ्खामोहोदयादाकर्षसिद्धिः। साक्षात्परम्परया च तत्त्वाप्रतिपत्तिरनाभोगम् / यथैकेन्द्रियादीनां तत्वातत्त्वानध्यवसायवतां मुग्धलोकानां च / यद्यपि माषतुषादिकल्पानां साधूनामपि साक्षात्तत्त्वाप्रतिपत्तिरस्ति, तथापि तेषां गीतार्थनिश्रितत्वात्तद्गततत्वप्रतिपत्तिः परम्परया तेष्वपि सत्त्वान्न तत्रातिव्याप्तिः। तत्वाप्रतिपत्तिश्चात्र संशयनिश्चयसाधारणतत्त्वज्ञानसामान्याभाव इति न सांशयिकेतिव्याप्तिरिति दिक् / .. ___ एतच पश्चप्रकारमपि मिथ्यात्वं भव्यानां भवति / अभव्यानां त्वाभिग्रहिकमनाभोगो वेति द्वे एव मिथ्यात्वे स्याताम् , न त्वनाभिग्रहिकादीनि त्रीणि; अनाभिग्रहिकस्य विच्छिन्नपक्षपाततया मलाल्पतानिमित्तकत्वाद् , आभिनिवेशिकस्य व्यापन्नदर्शननियतत्वाद्, सांशयिकस्य च सकम्पप्रवृत्तिनिबन्धनत्वाद् अभव्यानां च बाधितार्थे निष्कम्पमेव प्रवृत्तेः; अत एव भव्याभव्यत्वशङ्कापि तेषां निषिद्धा / तदुक्तमाचारटीकायाम्-" अभव्यस्य भव्याभव्यत्वशङ्काया अभावाद" इति // 8 // नन्वभव्यानामन्तस्तत्त्वशून्यानामनाभोगः सार्वदिको भवतु, आभिग्रहिकं तु कथं स्याद् ? इति भ्रान्तस्याशङ्कामपाकर्तुमाभिग्रहिकभेदानुपदर्शयति१ तदेव सत्यं निःशङ्कं यजिनः प्रवेदितम् / For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy