________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथाऽपि स्वस्वस्थानविनियोगलक्षणेन विशेषेण तेषां सर्वनयश्रद्धानमस्तीति नातिव्याप्तिः। विदुषोऽपि स्वरसवाहिभगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानमाभिनिवेशिकम् / स्वस्वशास्त्रवाधितार्थश्रद्धानं विपर्यस्तशाक्यादेरपीति तत्रातिव्याप्तिवारणाय भगवत्प्रणीतत्वं शास्त्रविशेषणम् / भगवत्प्रणीतशास्त्रे बाधितार्थश्रद्धानमिति सप्तमीगर्भसमासान्नातिव्याप्तितादवस्थ्यम् , तथाऽप्यनाभोगात्प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दष्टावतिव्याप्तिः, अनाभोगाद् गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्वानभणनात् / तथा चोक्तमुत्तराध्ययननियुक्तो " सम्मद्दिट्टी जीवो उवइष्टुं पवयणं तु सद्दहइ / सद्दहइ असम्भावं अणाभोगा गुरुणिओगा वा // " (कर्मप्र.) इति तद्वारणाय स्वरसवाहीति सम्यग्वक्तृवचनानिवर्तनीयत्वं तदर्थः / अनाभोगादिजनितं मुग्धश्राद्धादीनां वितथश्रद्धानं तु सम्यग्यक्तृवचननिवर्तनीयमिति न दोषस्तथाऽपि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयान्यतरस्य वस्तुनः शास्त्रवाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थ विदुषोऽपीति-शास्त्रतात्पर्यबाधप्रतिसंधानवत इत्यर्थः। सिद्धसेनादयश्च स्वस्वाभ्युपगतमर्थ शास्त्रतात्पर्यबाधं प्रतिसंधायापि पक्षपातेन न प्रतिपनवन्तः, किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसंधायेति न तेऽभिनिवेशिनः / गोष्ठामाहिलादयस्तु शास्त्रतात्पर्यबाधं प्रतिसंधायैवान्यथा श्रद्धत्ते इति न दोषः। परविषयोन्मूलने मोहाः---मुह्यन्तीति मोहा मिथ्याप्रत्ययाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात् , तदभावे स्वविषयस्याप्यव्यवस्थितेः, मतश्च परविषयस्याभावे स्वविषयस्याप्यसत्त्वात् , तत्प्रत्ययस्य मिथ्यात्वम् / एवं तद्व्यतिरिक्तमा हकप्रमाणस्य चाभावात् तस्मात्तानेव नयान् , पुनःशब्दस्यावधारणार्थत्वात् / नेति प्रतिषेधो विभजयक्रियायाः / दृष्टः समयः सिद्धान्तवाच्यमनैकान्तात्मकं वस्तुतत्त्वं येन पुंसा स तथा सन् विभजते सत्येतरतया, स्वंतरविषयमवधारयमाणोऽपि तथा तन्न विभजते, अपि वितरनयविषयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयतीति यावत् / ] सम्यग्दृष्टीव उपदिष्टं प्रवचनं तु श्रद्धत्ते / श्रद्धत्ते असद्भावमनाभोगाद् गुरुनियोगाद्वा // For Private and Personal Use Only