________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमात्मकं च / तदाह वाचकमुख्या--"अनधिगमविपर्ययौ च मिथ्यात्वम् " इति, तथाऽपि 'धर्मेऽधर्मसंज्ञा' इत्येवमादयो दश भेदा इवोपाधिभेदात्पञ्चैते भेदाः शास्त्रप्रसिद्धाः। तत्राभिग्रहिकम्-अनाकलिततत्त्वस्याप्रज्ञापनीयताप्रयोजकस्वस्वाभ्युपगतार्थश्रद्धानम् / यथा यौद्धसांख्यादीनां स्वस्वदर्शनप्रक्रियावादिनाम् / यद्यपि वैतण्डिको न किमपि दर्शनमभ्युपगच्छति, तथापि तस्य स्वाभ्युपगतवितण्डावादार्थ एव निबिडाग्रहवत्त्वादाभिग्रहिकत्वमिति नाव्याप्तिः। 'अनाकलिततत्त्वस्य' इति विशेषणाद् यो जैन एव धर्मवादेन परीक्षापूर्वं तत्त्वमाकलय्य स्वाभ्युपगतार्थं श्रद्धत्ते तत्र नातिव्याप्तिः / यस्तु नाम्ना जैनोऽपि स्वकुलाचारेणैवागमपरीक्षां बाधते तस्याभिग्रहिकत्वमेव, सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात् / तदुक्तं हरिभद्रसूरिभिः " पक्षपातो न में वीरे न द्वेषः कपिलादिषु / / युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः // " इति / यश्चागीतार्थो गीतार्थनिश्रितो माषतुषादिकल्पः प्रज्ञापाटवाभावादनाकलिततत्व एव स्वाभिगतार्थ जैनक्रियाकदम्बकरूपं श्रद्धत्ते तस्य स्वाभ्युपगतार्थश्रद्धानं नाप्रज्ञापनीयताप्रयोजकस् , असद्ग्रहशक्त्यभावात् , किन्तु गुणवदाज्ञाप्रामाण्यमूलत्वेन गुणवत्पारतव्यप्रयोजकमित्यप्रज्ञापनीयताप्रयोजकत्वविशेषणान्न तत्रातिव्याप्तिः। स्वपराभ्युपगतार्थयोरविशेषेण श्रद्धानमनाभिग्रहिकम् / यथा 'सर्वाणि दर्शनानि शोभनानि' इति प्रतिज्ञावतां मुग्धलोकानाम् / यद्यपि परमोपेक्षावतां निश्चयपरिकर्मितमतीनां सम्यग्दृष्टीनां स्वस्थाने सर्वनयश्रद्धानमस्ति, शिष्यमतिविस्फारणरूपकारणं विनैकतरनयार्थनिर्धारणस्याशास्त्रार्थत्वात् / तदाह संमती सिद्धसेनः “णिययवयणिजसच्चा सव्वणया परवियालणे मोहा / ते पुण न दिसमओवि भयइ सच्चे व अलिए व // " निजकवचनीयसत्त्याः सर्वनयाः परविचालने मोहाः / तान् पुनर्न दृष्टसमयो विभजते सत्ये वा अलिके दा॥ .. ( सम्मतितर्क गयकाण्डः गा० 28) [निजकवचनीये स्वांशे परिच्छेथे सत्याः-सम्बरज्ञानरूपाः स एव .. ...मादयः परपिचालो For Private and Personal Use Only