________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50. " इति से परस्स अहाए कराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विपरियासमुवेइ." इत्याचाराङ्गवचनात्राणि कर्माणि परस्यार्थाय कुर्वता हिताहितवुयादिविपर्यासवतो हिंसादिदोषस्यापि भवान्तरे प्रायश्चित्तानुपपत्तिरेव स्यात् / अथ सर्वस्यैव पापस्य प्रमादेन कृतस्य विपर्यासाधायकत्वाद्विपर्यासजलसिच्यमानानां क्लेशपादपानां चानुबन्धफलत्वाद् भवान्तरेऽपि तथाभव्यत्वाविशेषात्कस्यचित्कदाचिद्विपर्यासनिवृत्त्यैवानुबन्धनिवृत्तेहिंसादिप्रायश्चित्तोपपत्तिरिति चेत् , तदिदमुत्सूत्रप्रायश्चित्तेऽपि तुल्यम् / न चैवमुत्सूत्रभाषणादनन्तसंसारानियमनात्ततो भयानुपपत्तिरिति शङ्कनीयम् , एकान्ताभावेऽपि बाहुल्योक्तफलापेक्षया हिंसादेरिवोत्सूत्रादास्तिकस्य भयोपपत्तेः / आस्तिक्यं धसत्प्रवृत्तिभयनिमित्तमिति दिग्। ___ अनन्तसंसारिताशुभानुबन्धयोगादित्युक्तम् , अधाशुभानुबन्धस्य किं मूलम् ? के च तद्भेदाः ? इत्याहतम्मूलं मिच्छत्तं अभिग्गहिआइ तं च पंचविहं / भवाणमभव्वाणं आभिग्गहिअं वणाभोगो॥८॥ 'तम्मूलंति / तस्यानन्तसंसारहेत्वशुभानुवन्धस्य मूलं मिथ्यात्वम् , उत्कटहिंसादिदोषानामपि मिथ्यात्वसहकृतानामेव तद्धेतुत्वात् , अन्यथा दोषव्यामूढताज्नुपपत्तेः। तचाभिग्रहिकादिकं पञ्चविधम् आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगं चेति पञ्चप्रकारम् / यद्यपि जीवादिपदार्थेषु तत्त्वमिति निश्चयात्मकस्य सम्यक्त्वस्य प्रतिपक्षभूतं मिथ्यात्वं द्विविधमेव पर्यवस्यति-जीवादयो न तत्त्वमिति विपर्यासात्मकं जीवादयस्तत्त्वमिति निश्चयाभावरूपानधि तन्मूलं मिथ्यात्वमभिग्रहिकादि तच्च पञ्चविधम् / भव्यानाम् , अभव्यानामाभिग्रहिकं वाऽनाभोगः // 8 // 1 इति स परस्यार्थाय क्रूणि कर्माणि बालः प्रकुर्घन् तेन दुःखण मूढो विपर्यासमुपैति / For Private and Personal Use Only