________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विपाकभावेन गर्हितमेतद् कुत्साऽऽस्पदम् , दुष्कृतभेतद् धर्मवाह्यत्वेन, उज्झितच्यमेतद् हेयतया, विज्ञातं मया कल्याणमित्रगुरुभगवद्वचनाद् , 'एवमेतद्' इति रोचितं श्रद्धया-तथाविधक्षयोपशमजया, अर्हत्सिद्धसमक्षं गर्हे कथम् ? इत्याहदुष्कृतमेतद् , उज्झितव्यमेतद् / अत्र व्यतिकरे 'भिच्छा मि दुक्कडं' वारत्रयं पाठः। अथ हिंसादिकस्य पापस्यं पारभविकस्यापि प्रायश्चित्तप्रतिपत्तिः स्थात् , न तुत्सूत्रभाषणजनितस्य, उत्सूत्रभाषिणो निह्नवस्य क्रियाबलाद्देवाकिस्विषिकत्वप्राप्तावपि तत्र निजकृतपापपरिज्ञानाभावेन दुर्लसबोधित्वभणनाद् / यदागमः लण वि देवत्तं उववन्नो देवकिब्धिसे / तत्थवि से न याणइ कि मे किच्चा इमं फलं / / तत्तोवि से चइत्ता णं लम्भिही एलमूअगं / . गरगं तिरिक्खजोणिं वा बोही जत्थ सुदुल्लहा // एतवृत्तिर्यथा-लद्धणवित्ति / लब्ध्वाऽपि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्विषनिकाये, तत्राप्यसौ न जानाति विशुद्धाध्यसायाभावात् कि मम कृत्वेदं फलं किल्बिषिकदेवत्वमिति / अस्य दोषान्तरमाह-तत्तोवित्ति / ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एडसूकताम्-अजभवानुकारि मनुष्यत्वम् , तथा नकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते / बोधिर्यत्र सुदुर्लभा-सकलसंपत्तिनिवन्धना यत्र जिनधर्मप्राप्तिर्दुरापा / 'प्राप्नोत्येडमूकताम्' इति वाच्ये असकृद्भयमाप्तिख्यापनार्थ 'लप्स्यते' इति भविष्यत्कालनिर्देश इति चेद् , मैवम् , नहि तत्र निह्नव एवाधिकृतः किन्तु तपास्तेनादिः " तवतेणे वयतेणे" इत्यादि पूर्वगाथैकवाक्यत्वात्तस्याप्युत्कृष्टफलप्रदर्शनमेतद् न तु सर्वच सादृश्यनियमः, अध्यवसायवैचित्र्यात् / किं चैवम् लब्ध्वाऽपि देवत्वं उपपन्नो देवकिल्बिषिके / तत्रापि स न जानाति किं मम कृत्वेदं फलम // ततोऽपि स च्युत्या लप्स्यते एडमूकताम् / नरकं तिर्यग्योनि वा बोधिर्यत्र गुदुर्लभा // 2 सपासना प्रतस्तेनः / For Private and Personal Use Only