________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा च संविग्नपाक्षिकातिरिक्तस्य पार्श्वस्थादेरपि द्वितीयबालता, नियामकनियतोत्सूत्रसद्भावात् , तस्यानन्तसंसारनियमानियस्यापि तदनियम एव, भवभेदस्य भावभेदनियतस्वादिति प्रतिपत्तव्यम् // ननु कर्म तावदुत्कर्षतोऽप्यसंख्येयकालस्थितिकमेव बयते, तत्कथं तीव्राध्यवसायवतामप्युत्सूत्रभाषिणामनन्तसंसारित्वं स्याद् ? इत्याशङ्कायामाहकम्मं बन्धइ पावं जो खलु अणुवरयतिवपरिणामो। असुहाणुबन्धजोगा अणंतसंसारिआ तस्स // 7 // कम्मंति / कर्म बध्नाति पापं यः खल्वनुपरततीव्रपरिणामःअविच्छिन्नतथाविधसंक्लिष्टाध्यवसाय: स्वेच्छानुरोधानियवासवप्रवृत्तो वानियतास्रवप्रवृत्तो वा नियतोत्सूत्रभाषी वानियतोत्सूत्रभाषी वा प्रासानुशयस्तस्याशुभानां ज्ञानावरणीयादिपापप्रकृतीनामनुबन्धस्योत्तरवृद्धिरूपस्य वध्यमानप्रकृतिषु तजननशक्तिरूपस्य वा योगात्संबन्धादनन्तसंसारिता भवति / ग्रन्धिभेदात्मागप्यनन्तसंसारार्जनेऽशुभानुवन्धस्यैव हेतुत्वात्प्राप्तसम्यग्दर्शनानामपि प्रतिपातेन तत एवानन्तसंसारसंभवात् / तदुक्तमुपदेशपदे " 'गंठीइ आरओ विहु असई बंधो ण अन्नहा होइ / ताए सो वि हु एवं णेओ असुहाणुबन्धोत्ति // " ततश्च पन्धमात्रानानन्तसंसारिता, किन्त्वनुबन्धादिति स्थितम् / अत एवाभोगादनाभोगाद्वोत्सूत्रभाषिणामपीह जन्मनि जन्मान्तरे वाऽलोचितप्रतिक्रान्ततत्पातकानामनुबन्धविच्छेदान्नानन्तसंसारिता , केवलमनन्तभववेद्यनिरुपक्रमकर्मबन्धे तन्निःशेषतां यावत्प्रायश्चिचप्रतिपत्तिरेव न स्याद् , अध्यवसायविशेषाद् / नियतोपक्रमणीयस्वभाव कर्म बध्नाति पापं यो खल्खनुपरततीव्रपरिणामः / अशुभानुबन्धयोगादनन्तसंसारिता तस्य // 7 // प्रन्धरारतोऽपि खलु असकृद् बन्धो नान्यथा भवति / तस्याः सोऽपि खल्वेवं शेयोऽशुभानुबन्ध इति // For Private and Personal Use Only