________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगाजीवपातो. मा भूद्, अयोगिकेवलिवन्मनकादियोगादेव तत्कायस्पर्शेन मशकादिघातस्तु जायमानः कथं वारणीयः ? समानावच्छेदकतासम्बन्धेन तत्र केवलियोगानां प्रतिबन्धकत्वात् स वारणीय इति चेत् / तत्किं प्रतिबन्धकत्वं शुभयोगत्वेन, उत केवलियोगत्वेन, आहोस्वित् क्षीणमोहयोगत्वेन / नायः, अप्रमत्तसंयतानामपि जीवघातानापत्तेः, तेषामप्यात्माघनारम्भकत्वेन शुभयोगत्वात् / न द्वितीयः, केवलियोगत्वेन जोक्यातप्रतिबन्धकत्वे क्षीणमोहयोगात् तदापत्तेरमतिबन्धात्, सा च तवानिष्टेति / नापि तृतीयः, क्षीणमोहयोगत्वेन तत्प्रतिबन्धकत्वे कल्पनीये आवश्यकत्वाल्लाघवाच मोहक्षयस्यैव तथात्वकल्पनौचित्यात् / तथा चायोगिकेवलिनोऽपि कायस्पर्शान्मशकादिव्यापत्यभ्युपगमो दुर्घटः स्यादिति / न च सर्वजीवाहिंसालक्षणोऽतिशयोऽहिंसायाः केवलिस्थानत्वं वाऽयोगिकेवलिबहिर्भावेन क्वापि प्रतिपादितमस्ति, येन त्वया तत्र व्यभिचारणाय क्षीणमोहयोगत्वेन जीवघातप्रतिबन्धकत्वं कल्प्यमानं युक्तिक्षम स्यादिति सर्वजीवाहिसादिप्रतिपादनं सकलभावाकरणनियमनिष्ठाभिधानाभिप्रायेणैव नतु हिंसाया अपि सयथाऽभावाभिप्रायेण / अनाभोगस्तु न तज्जनको येन तदभावातदभावः स्यादिति तु शतशः प्रतिपादितमेवेति न किञ्चिदेतदिति स्मर्त्तव्यम्।। किंच-पशकादिकर्तृकजीवघातं प्रत्यपि केवलियोगानां त्वया प्रतिबन्धकत्वं कल्प्यते तत् केवलं व्यसनितयैव, उत तादृशस्यापि तस्य दोषत्वात् / नायः, व्यसनितामात्रकृतकल्पनाया अनादेयत्वाद् / न द्वितीयः, तादशस्य जीवघातस्य सयोगिकेवलिनो दोषत्वेऽयोगिकेवलिनोऽपि दोषत्वापच्यवादिति बहुतरमूहनीयम् // 73 / / अथ केवलिनो योगा एव रक्षाहेतव इति पराभ्युपगमप्रकारं विकल्प्य दूषयबाह'सा तस्स सरूवेणं वावारेणं च आइमे पक्खे / पडिलेहणाशहाणीविलिए अअसक्कपरिहारो // 7 // व्याख्या-सा तस्स ' त्ति / ना-जीवरक्षा तस्य केवलिनः शुभयोगस्य स्वरूपेण सत्तामात्रेण वा, अथवा व्यापारण जोवरक्षार्थ स्वस्य रक्षणीयजीवस्य वाऽन्यदेशनयनाभिमुखपरिणामेन / आदिमे प्रथमे पक्षे प्रतिलेखनादिहानिः / 1 मा तस्य स्वरूपेण व्यापारेण चादिमे पक्षे। . प्रतिलेखनादिहानिः, वितीये चाशक्यपरिहारः // 74 // For Private and Personal Use Only