________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 दोषरूपा, उभयरूपा, अनुभयरूपा वा? आये तद्गुणवैकल्येनायोगिकेवलिनो होनत्वं दुर्निवारमेव / द्वितीये तु स्वाभ्युपगमस्य हानिकोंकशास्त्रविरोधश्च / तृतीयश्च पक्षो विहितक्रियापरिणतयोगरूपां जीवरक्षामधिकृत्य विहितक्रियात्वेन गुणत्वं योगत्वेन च दोषत्वमभिप्रेत्य सम्भवदुक्तिकोऽपि स्वाभाविकजीक्याताभावरूपां जीवरक्षामधिकृत्यासम्भवदुक्तिक एव; नहि स गुणो दोषश्वेत्युभयरूपतामास्कन्दतीति / चतुर्थे तु तदभावेऽप्ययोगिकेवलिन इव सयोगिकेवालनोऽपि न बाधक इति, किं तत्रावश्यंभाविजीवविराधनानिरासव्यसनितया? अय जीवघाताभावमात्ररूपा जीवरक्षा न गुणः, किन्तु योगजन्यजीवधाताभावरूपा; सा च मशकादिकर्तृकमशकादिजीवघातकालेऽयोगिकेवलिनोऽपि विशिष्टाभावसत्वान्नानुपपन्नेति न तस्य तद्गुणवैकल्यम् / न वा सयोगिकेवलिनोऽपि योगात् कदाचिदपि जीवघातापत्तिः, तादृशजीवरक्षारूपातिशयस्य चारित्रमोहनीयक्षयसमुत्थस्य ज्ञानावरणीयक्षयसमुत्थकेवलज्ञानस्येव सर्वकेवलिसाधारणत्वात् संयतानां यज्जोववविषयकाभोगस्तज्जीवरक्षाया नियतलाच / अत एव सामान्यसाधूनामप्यनाभोगजन्यायामेव विराधनायां परिणामशुद्धया फलतोऽवधकत्वमुपदर्शितम् // तथा चोक्तं हितोपदेशमालायां " णणु कह उवउत्ताण वि छउमत्थ मुणीण सुहुमजिअरक्खा। सचं तहवि ण वहगा उवओगवरा जओ भणि // 1 // " एतद्व्याख्या यथा-नन्विति पूर्वपक्षोपन्यासे / छद्मस्थानां विशिष्टातिशयज्ञानरहितानां मुनीनां साधूनामुपयुक्तानामपि सम्यगीर्यासमितानामपि सूक्ष्माणां चर्मचक्षुषामदृश्यानां जीवानां कथं रक्षासम्भवः ? आचार्य आइ-सत्यमवितथमेतत्, तथापि विशिष्टज्ञानशून्या अपि यधुपयोगपराः पूर्वोक्तयुक्या चंक्रमणप्रसास्तदा सम्भवत्यपि प्राणिवधे न वधका-वधकार्यपापभाजः // " न चैतत्काल्पनिकम, यत ' उच्चालिअंमि पाए ' इत्यादि; यत एव भगवतोऽहिंसातिशयः, अत एव ' अणासवो केवलीणं ठाणं' इति प्रश्नव्याकरणसूत्रे केवलिनां स्थान केवलिनामहिंसायां व्यवस्थितत्वादित्युक्तम् / तथा चतु:शरणप्रकीर्णकेऽपि 'सबजिमाणमहिंसं अरिहंता'-इत्यत्र सर्वे सूक्ष्मवादरत्रसस्थावरलक्षणा ये जीवास्तेषां न हिंसाऽहिंसा तामहन्त इति विवृतमिति चेत्, नन्वेवं योगजन्यजीवघाताभावेरू पायी जीवरक्षाया भगवतोऽतिशयत्वं स्वीकुर्वाणस्य तव मते सयोगिकेवलिनो For Private and Personal Use Only