SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 229 बन्धः स्फुट इति वृत्तावुपशान्तादीनां समुच्चयेन भणनं न जीवघातमधिकृत्येति यदुच्यते, तहहुश्रुतत्वयशक्षतिकरमेव, समुन्नयप्रतियोगिनां पदार्यानां तुल्यवसकृतधर्मविशिष्टक्रियान्वयित्वेनैव समुच्चयनिर्वाहाद् / एवं च यया सिकतादौ घृतादिसंसर्गेऽपि स्नेहाभावान बन्धः, बदरचूर्णसक्तुचूर्णादीनां तु चिरकालस्थितिहेतुस्नेहविशेषाभावादल्पकालीनो बन्धा, कणिक्कादीनां तु स्नेहोत्कर्षादुत्कृष्टबन्ध इत्यत्र बदरचूर्णादीनां तुल्यवदेव स्नेहविशेषाभावविशिष्टप्रकृतघृतादिसंसर्गनिमित्तकाल्पकालीनबन्धभवनक्रियान्वयेनैव समुच्चयः प्रतीयते, तथा प्रकृतेऽप्युपशान्तादीनां तुल्यवदेव स्थितिनिमित्तकषायाभावविशिष्टप्रकृतजीवघातनिमित्तकसामयिकबन्धभवनक्रियान्वयेनैव समुच्चयोपपत्तेरिति नारकतिर्यपरामरा इति दृष्टान्तेन प्रत्येकपदार्थधर्ममादाय समुच्चयखण्डनमपाण्डित्यविज्रम्भितमेव, तस्य केनाप्यनभ्युपगतत्वात् / प्रकृतधर्मविशिष्टक्रियान्वयतुल्यतारूपसमुच्चयखण्डने तु समुच्चयतात्पर्यंकवाक्यस्यैवानुपपत्तिरिति न किश्चिदेतत् // 72 // तदेवमाचाराङ्गवृत्त्यभिप्रायेण यावदयोगिकेवलिन संयतानामपि कायस्पर्शेनावश्यंभाविनी(न्या)जीवविराधनया(नाया)व्यक्तमेव प्रतीतावपि ये 'अयोगिकेवलिन्यवश्यंभावी मशकादिघातो मशकादिकर्तृको नत्वयोगिकेवलिकर्तृकः - इति शब्दमात्रेण मुग्धान् प्रतारयति(न्ति) त एवं प्रष्टव्या:-सोऽयमेवंविध एव सयोगिकेवलिनः कथं न भवति ? इति / इत्थं पृष्टाश्च त एवमुत्तरं ददते-योगक्तो हि केवलिनो जीवरक्षैव भवति, तत्कारणानां शुभयोगानां सत्त्वात् / अयोगिकेवलिनस्तु योगानामेवाभावेन स्वरूपयोग्यतयापि निजयोगजन्यजीवधातसामग्र्या अभाववज्जीवरक्षासामग्र्या अप्यभाव एवेति तत्राहजियरक्खा सुहजोगा जश् तुह इट्ठा सजोगिकेव लियो। हंदि तया तयत्नावे अजोगिणो हुऊ होणतं // 3 // . 'जिअरक्ख'त्ति।जीवरक्षा-जीवघाताभावरूपा यदि तव मते सयोगिकेवलिन इष्टा, केवलियोगानामेव जीवरक्षाहेतुत्वात् , 'हन्दीत्याक्षेपे' तदा तदभावे-योगाभावेन जीवरक्षाऽभावेऽयोगिकेवलिनो हीनत्वं सयोगिकेवल्यपेक्षयाऽपकृष्टत्वं भवेद् / ... अयं भावा-जीवघाताभावरूपा जीवरक्षा किं त्वया गुणरूपाऽभ्युपगम्यते, For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy