SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 बन्धमधिकृत्योपशान्तादीनां समुच्चयेन भणनमित्यत्र अप्रासङ्गिके प्रथमावृत्तिग्रन्ये नास्माकमनभीप्सितसिद्धिरित्याशङ्कायामाहजो पुण इह कत्तारं नियमा मसगाजीवमहिकिच्च। जण इमं पासंगियमइप्पसंगो फुडो तस्स // 7 // - व्याख्या-'जो पुण' ति / यः पुनरिह शैलेश्यवस्थायामवश्यंभाविन्यां जीवविराधनायां कर्तारं नियमान्मशकादिजीवमधिकृत्येदमाचारासयुक्तं प्रासंगिकं भणति-तद्विराधनाकर्तृमशकादिजीवगतोपादानकर्मबन्धकार्यकारणभावप्रपश्वप्रदर्शनमात्रप्रसङ्गमाप्तं वदति, नतु स्वसम्बद्धजीवविराधनाफलाफलवैचित्र्यप्रदर्शनपरम्, तस्य स्फुट एवातिप्रसङ्गः / एवं ह्यप्रमत्तसंयतस्यापि प्रमादनियतजीवविराधनाकर्तृत्वाभावेन जीवविराधनानिमित्तककर्मबन्धो भ्रियमाणजोगत एव पयवस्येद्, नत्वप्रमत्तसंयतनिष्ठ इति कर्मबन्धानुमेयविराधनाया अप्रमत्तसंयतादिषु विचित्राया अभिधानमखिलं व्यधिकरणमेव स्यादिति / / किञ्च-अत्र 'कर्मबन्धं प्रति विचित्रता' इत्यत्र 'अत्र' इति निमित्तसप्तम्याश्रयणात् संयतसम्बद्धावश्यंभाविजीवविराधनानिमित्तमधिकृत्यैव कर्मबन्धविचित्रता वक्तुमुपक्रान्ता, सा च कर्मबन्धाभावकर्मबन्धावान्तरभेदान्यतररूपेति नायोगिनि तद्विचित्रताऽनुपपत्तिः / अत एव-" सेलेसिं पडिवनस्स जे सत्ता फरिस पप्प उद्दायति मसगादी, तत्थ कम्मबंधो पत्थि / सजोगिस्स कम्मबंधो दो समया / जो अपमत्तो उद्दवेइ तस्स जहन्नेणं अंतोमुहुत्तं, उकोसेणं अमुहुत्ता / जो पुण पमत्तो न य आउट्टिाए तस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं असंवच्छराई / जो उण आउट्टिआए पाणे उवद्दवेइ तवो वा छेओ वा वेयावर्ड वा करेइ ॥"-इत्याचाराचूर्णावप्यवश्यंभाविजीवविराधनानिमित्तक एव कर्मबन्धाभावसः (वः) कर्मबन्धविशेषश्चायोगिकेवल्यादीनां संयतानां पश्चानुपूर्व्या व्यक्तः प्रतीयते / कर्मबन्धाभावादौ निमित्तत्वं च तत्र स्वसमानाधिकरणोपादानानुरोधेनाऽभिधीयमानं निमित्तमनैकान्तिकमिति सम्पदायादविरुद्धम् / तथा च 'सजोगिस्स कम्मबंधो दो समया' इत्यत्र तत्र' इत्यस्यावश्यमनुषङ्गात् / तत्र कायस्पर्श प्राप्य सत्योपद्रवे सयोगिकेवलिनो द्वौ समयौ कर्मबन्ध इति स्फुवार्यतीतापशान्तक्षीणमोहयोरपि तत्समानजातीयत्वेन तत्र द्वाषेव समयौ कर्म For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy