SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 227 चोपचारेणाप्रमत्तयतेरपि कथश्चित्तत्कर्तवमिष्यते, तदोपरिष्टादप्युषचारेणैतत्कल्पन ग्रन्थकाराभिप्रायानुरोधादेव निराबाधमिति यदुच्यते परेण 'सयोगि केवली कदाचिन्जीवविराधकः सम्भवति, भवस्थकेवलित्वाद् अयोगि केवलिबद्' इत्यत्र कदाचिज्जीवविराधकत्वं साध्यमयोगिकेलिनि दृष्टान्ते नास्ति, तस्याकर्तृत्वात् / किन -अयोगिकेवलिदृष्टान्तदातुरयोगित्वकर्तृत्वयाविरोधापरिज्ञानमपि स्फुटमेवेत्यादि, तत्सर्वं ग्रन्थाभिप्रायापरिज्ञानविजृम्भित मिति मन्तव्यम्; न ह्येवमधिकृताचाराङ्गवृत्तिग्रन्थः कथमप्युपपादितो भवतीति // 71 // . नन्वयं ग्रन्थः प्रासङ्गिक एव / तथाहि-अयोगिकेवलिनि मशकादिघातस्तावन्मशकाटिकर्तृक एव, तथा च कर्मबन्धोऽप्यध्यवसायानुगतो मशकादीनामेव भवति, एककर्तृकयोरेव कर्मरन्धोपादानकारणयोः परस्परं कार्यकारणभावसंवन्धाद्न पुनर्भिन्नकर्तृकयोरपि, सांसारिकजीवकर्तृ कैः पञ्चविधोपादानकारणैः सि. द्धानामपि कर्मबन्धप्रसक्तेः / तस्मादन्वयव्यतिरेकाभ्यामनादिसिद्धकार्यभावव्यवस्थासिद्धयर्थमत्र च कर्मबन्धं प्रति विचित्रतेत्यादि प्रसङ्गतोऽभिहितम् / तत्रायोगिन्युपादानकारणाभावात् कर्मबन्धाभाव इति व्यतिरेकनियमः प्रदर्शितः, स चान्ययनियमस्य दाढयहेतुः, अन्यथा कर्मबन्धविचित्रताविचारेऽबन्धकस्यायोगिकेवलिनो भणनमनर्थकमेव सम्पद्येत, प्रयोजनाभावाद् / योगवत्सु चोपादानकारणसत्त्वे कर्मबन्धलक्षणकार्यसत्त्वमित्यन्वयनियमं प्रदर्शयन्नेव योगवतामपि कर्मबन्धवैचित्र्यमुपादानकारणवैचित्र्यायत्तमेवेति नियमसिद्धयर्थं प्रथमं कारणावैचित्र्ये काय(य)वैचित्र्यमुपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायोदयाभावात् सामयिका कर्मबन्ध इति समुच्चयभणनेनं बभाण वृत्तिकारः, तेषां च त्रयाणामपि मिथ्यात्वाविरतिकषाययोगप्रमादलक्षणानां पञ्चविधोपादानकारणानां मध्ये केवलयोगस्यैव सत्त्वेन कर्मबन्धोऽपि तत्सत्यय एव / स च सामयिकसातवेदनीयकमारवलक्षणः समान एव भवति, विचित्रताहेतुमोहनीयोदयाभावाद्, न पुनरुषशान्तस्येव क्षीणमोहस्यापि जीवघातादिकं भवतोति बुद्धया समुच्चयेन भणमा साशसाम्यमधिकृत्य समुच्चयेन भणितेरसम्भवाद्, अन्यथोपशान्तस्येचं क्षीणमोहस्यापि जोपघातादिहेतुमोहनीयसत्तापि वक्तव्या स्यात् , तथा केवलिवदुषशान्तस्याऽपि सर्वज्ञत्वं वक्तव्यं प्रसज्येत; नहि नारकतिर्यनरामराः कर्मबन्धका इत्यादिसमुच्चयमणनेन सर्वेषामपि साम्यं कग्यापि संमतम् / तस्माघथा सामान्यतः कर्मबन्धमधिकृत्य नारकादीनां समुच्चयेन भणनं तथा सामयिकसातवेदनीयकर्म, For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy