________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेऽपि पश्चविधोपादाकारणाभावान्नास्ति बन्धः' इत्यत्र कर्तुः सम्यग्विचारे मशकादीनां प्राणत्यागस्य कर्ता किमयोगिकेवली, उतान्यः कश्चिद् / नाद्यः, अयोगित्व'कर्तृत्वयोर्विरोधेनायोगिकेवलिनः कर्तृत्वाभावात् ; नहि कायादिव्यापारमन्तरेण का भवितुमर्हति, "क्रियाहेतुः स्वतः कर्ता ' इति वचनात् / यदि चायोमिकेवलिनः शरीरस्य सम्पर्कादपि जायमानो जीवघातस्तलिमित्तकत्वेन तत्कर्तृको भण्यते, तर्हि अपसिद्धान्तः स्यात् / पुरुषप्रयत्नमन रेणापि प्राणत्यागलक्षणस्य . कार्यस्य जायमानत्वेन पञ्चसमवायवादि वहाने / निमित्तत्वमात्रेण च कर्तृलव्यपदेशोऽपि न भवति, साध्वादिनिमित्तकापसर्गस्य दानादेश्च साध्वादिकर्तृकत्वेन व्यपदेशप्रसक्तः / द्वितीयविकल्पेऽन्यः कश्चित् कर्ता-इत्यत्रानन्यगत्याऽनाभोगवतः कूपपातवदनिष्टोऽपि मशकादीनां निजप्राणत्यागोऽनाभोगवशेन म्रियमाणमशकादिकर्तृक एव, यदि मशकादीनां निजकायादिव्यापारो नाभविष्यत् तर्हि शरीरसम्पर्काभावेन निजप्राणत्यागोऽपि नाभविष्यद्-इति व्याप्तिबलेन मशकादियोगजन्यत्वात् / तथा चायोगिकेवलिनि मशकादिकका जीवविराधना बन्धाभाववती सम्भवत्यपि सयोगिकेवलिनि तु सा कथं स्यात् ? तत्र हिंसा भवन्ती तद्योगान्वयव्यतिरेकानुविधायित्वेन तत्कर्तृकापि स्यात्, न च केवलिनो जीवविराधनाकर्तृकार्यभावसम्बन्धेन जीवविर धनाविचारे कथं केवलिनो निर्देशो युज्यते ? इति // 70 // ' तत्र आहकारगसंबंधेणं तस्स णिमित्त स्सिमा उ मज्जाया। कत्ता पुणो पमत्तो णियमा पाणाश्वायस्य // 1 // ... व्याख्या-'कारगसंबंधेणं ' ति / कारकस्यापि करणादिरूपस्यायोगिकेवल्यादेः पश्चानुपूर्व्या प्रमत्तसंयतान्तस्य सम्बन्धेन तस्य साक्षात्कायस्पर्शप्रत्ययारम्भस्य निमित्तस्येयमाचारावृत्तिकदुक्ता मर्यादा-अयोगिकेवल्यादिकारकसम्बन्धमात्रेणैव साक्षादारम्भस्य बाह्यस्य निमित्तस्य प्रस्तुता फलाफलविचारणा कियत, नतु कर्तृकार्यभावसम्बन्धेन जीवविराधनाविचारः क्रियत इति नेतानुफ्पत्तिरित्यर्थः / कर्ता पुनः प्राणातिपातस्य नियमात् प्रमत्त एव, शास्त्रीयव्यबहारोग प्रमादवत एव प्राणाविपातकत्वव्यवस्थिते, ततो यदि कर्तृकार्यभावस'बन्धनैवात्र जीवविराधनाविचारः प्रस्तुतस्तदा पराभ्युपगमरीरमा केवलिन इवाप्रमासंमतस्यापि निर्देशोऽमामाणिक इति सर्वमेव वृत्तिकदुक्तं विशीर्येत / यदि For Private and Personal Use Only