________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 दवओ होइ ण भावओ उ / " ति वचनाद्-इत्याशङ्कामेतद्वचनं फलीभूतसाक्षात्सम्बद्धारम्भविषयत्वान्नानुपपन्नम्, स च केवलिनोऽपि कादाचित्क एवेत्यभिप्रायेण निराचिकीर्षुराह'सक्खं तु कायफासे जो आरंजो कयाइ सो हुङा / अहिगिच्च तं णिमित्तं मग्गिज्जइ कम्मबंधतिई // 19 // ___ व्योख्या-'सक्खं तु 'त्ति / साक्षात्तु कायस्पर्शे य आरम्भः स कदाचिदेव भवेत् , तं च साक्षात्कायस्पर्शाज्जायमानं द्रव्यारम्भं व्यवहारिजनप्रतीयमानमिति गम्यं, निमित्तमधिकृत्य कर्मबन्धस्थितिऍग्यते शास्त्रकारैरिति गम्यम् / यद्यप्यप्रमत्तानामवश्यभावी जीवघातो न प्राणातिपातत्वेन दोषः, तथापि निमित्तभूतस्यास्यैकाधिकरणोपादानसद्भावासद्भावकृतं फल वैचित्र्यं विचार्यत इत्यर्थः / / 69 // ... कथमित्याह'तत्थ णिमित्ते सरिसे जेणेवादाणकारणाविक्खो। बंधाबंधविसेसो जणियो आयार वित्तीए // 70 // - व्याख्या-'तत्य' त्ति / तत्र साक्षात्कायस्पर्शाज्जायमानारम्भे निमित्ते सदृशे आकेवलिनमेकरूपे सति येन कारणेनोपादानकारणस्यापेक्षा नियतसद्भावा सद्भावाश्रयणरूपा यत्र स तथा बन्धावन्धविशेषः-कर्मबन्धतारतम्यतदभावप्रकारों भणित इति आचारवृत्तौ / तत्र प्रथममेतदधिकारसम्बद्धमाचाराङ्गलोकसाराध्ययनचतुर्थोद्देशकस्थं सूत्रं लिख्यते-" से अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणिअट्टमाणे संपलिजमाणे एगया गुणसमिअस्स रीयतो कायसंफासमणुचिन्ना एगइआ पाणा उद्दाइंति, इह लोगवेदणवेजावडियं जं आउट्टिकयं 1 साक्षात्तु कायस्पर्शे य आरम्भो कदाचित्स भवेत् / अधिकृत्य तं निमितं मृग्यते कर्मबन्धस्थितिः / 2 तत्र निमित्ते सहशे येनोपादानकारणापेक्षः / बन्धाबन्धविशेषो भणित आचारवृत्त्याम् // 70 // 1 स अभिक्रामन् प्रतिक्रामन् संकुचन प्रसारयन् संपरिमृजन एकंदा गुणसमितस्य रीयमानस्य कायसंस्पर्शमनुचीर्णा एके प्राणा अपद्रान्ति, इह लोकवेदनवेद्यापतितं यत्पुनराउट्टिकृतं कर्म तत्परिज्ञाय विवेकमेति / / For Private and Personal Use Only