________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 कम्मं तप्परिनाय विवेगमेति ति॥अथैतवृत्तिः-से' इत्यादि / स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्-गच्छन् , प्रतिक्रामन्-निवर्तमानः, संकुचन् हस्तपादादिसङ्कोचनतः, प्रसारयन् हस्तादीनवयवान, विनिवर्तमानः समस्ताशुभव्यापारान् सम्यक् परिसमन्ताद् हस्तपादादीनवयवांस्तनिक्षेपस्थानिव रजोहरणादिना मृजन संपरिमृजन्, गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयम् / तत्र निविष्टस्य विधिः-भूम्यामेकमुरुं व्यवस्थाप्य द्वितीयमुक्षिप्य तिष्ठेत् , निश्चलस्थानासहिष्णुतया भूमी प्रत्युपेक्ष्य प्रमृज्य च कुक्कुटीविजृम्भितदृष्टान्तेन सङ्कोचयेत्मसारयेद्वा, स्वपन्नपि मयूरवत् स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते इत्येवमादि सम्परिमृजन् सर्वाः क्रियाः करोति / एवं चाप्रमत्ततया पूर्वोक्ताः क्रिया: कुर्वतोऽपि कदाचिदवश्यं भावितया यत् स्यात्तदाह-'एगया' इत्यादि / एकदा कदाचिद् गुणसमितस्य गुणयुक्तस्याप्रमत्ततया रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामत सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्यां चिदवस्थायां कायः शरीरं तसंस्पर्शमनुचीर्णाः कायसङ्गमागताः सम्पातिमादयः माणिन एके परितापमाप्नुवन्ति, एके ग्लानतामुपयान्ति, एकेऽवयव विध्वंसमापधन्ते / अपश्चिमावस्थां तु सूत्रेणैव दर्शयति-एके प्राणाः प्राणिनोऽपद्रान्ति-माणे विमुच्यन्ते / अत्र च कर्मबन्धं प्रति विचित्रता / तथा हि-शैलेश्यवस्थायां मशकादानां कायसंस्पर्शेन प्राणत्यागेऽपि पञ्चधोपादानकारणयोगाभावानास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिका, अप्रमत्तयतेजघन्यतोऽन्तर्मुहूर्त्तम, उत्कृष्टतश्चान्त:कोटाकोटिस्थितिरिति / प्रमत्तस्य बनाकुट्टिकतामुपेत्य प्रवृत्तस्य कचित्पाण्याघवयवसंस्पर्शात् पाण्युपतापनादौ जघन्यत उत्कृष्टतश्च प्राक्तन एव विशेषिततरः / सचेतेमोपि भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-'इह लोग' इत्यादि। इहास्मिन् लोके जन्मनि वेदमनुभवनमिह लोकवेदनं तेन वेद्यमनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलाकवेदनवेद्यापतितम्, इदमुक्तं भवति-प्रमत्तयतिनापि यदि कायतः कृतं कर्म कायसङ्घटनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वाद्, आकुट्टिकृतकर्मणि तु यद्विधेयं तदाह 'जं आउट्टी' इत्यादि / यत्तु पुनः कर्माकुटया कृतमागमोक्तकारणमन्तरेणापेत्य प्राण्युपमर्दनेन विहितं तत्परिज्ञाय ज्ञपरिजया विवेकमेति विविच्यतेऽनेनेति विवेकः For Private and Personal Use Only