________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 वतः साऽल्पदोषाय // 1 // तद्रजीवहितार्थ जोवाकीर्णेऽपि विचरतो लोके। या भवति जीवपीडा यत्नवत: साल्पदोषाय // 2 // " इति / तथा च स्थूलक्रिपैवारम्भरूपा सम्पन्ना, मोहनीयं च न तस्यां हेतुः, दृष्टेष्टविरोधाद्-इत्येवंभूताररम्भस्य भगवति सत्त्वे न बाधकमित्यारम्भशक्तिरेवारम्भाक्षेपिका, अन्यथा तु चरमयोग इव प्राक्तनयोगेष्वप्यारम्भशक्तिकल्पने प्रमाणाभावः, निश्चयेन कार्य कुर्वत एव कारणत्वाभ्युपगमाद् / न च शक्तिविशेष विना योगत्वेनैव केवलियोगस्यारम्भस्वरूपयोग्यत्वाभ्युपगमो यौक्तिकः, चरमयोगस्यापि तश्वापत्तेः / न चेष्टापत्तिः, आरम्भस्वरूपयोग्ययोगत्वेनान्तक्रियाविरोधित्वाद्-इत्यारम्भशक्तिसत्वे केवलिनः स्थूलक्रियारूपारम्भो नानुपपन्न इति // 67 // एतदेवाह'सो केवलिणो विहवे चलोवगरणतणं जमेयस्स / सहगारिवसा णिययं पायं थलाइ किरियाए // 6 // * व्याख्या-'सो त्ति' स पुद्गलप्रेरणाद्वारक आरम्भः केवलिनोऽपि भवेद् , यद् यस्मादेतस्य केवलिनश्चलोपकरणत्वं सहकारिवशाद्-गमनक्रियापरिणामादिसहकारिवशात्यायः स्थूलया क्रियया नियतं वर्तते / अयं भावः--चलोपकरणत्वं तावद् भगवतोऽप्यस्त्येव, तथा च भगवती सूत्रम्-" केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा बाहुं वा ऊरुं वा ओगाहित्ता णं चिट्ठइ पभू णं केवली सेअकालंसि तेसु चेव आगासपएसेसु हत्थं वा जाव ओगाहित्ता णं चिहित्तए ? गो० णो इणढे समहे / 1 स केवलिनोऽपि भवेद् चलोपकरणत्वं यदेतस्य / सहकारिवशान्नियतं प्रायः स्थूलया क्रियया // 68 // 1 केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वा बाहुं वा ऊरुं वा अवगाय तिष्ठति प्रभुः केवली एष्यत्काले तेष्वेवाकाशप्रदेशेषु हस्तं वा यावदवगाह्य स्थातुम् ? गौतम! नायमर्थः समर्थः / स केनार्थेन भदन्त! एवमुच्यते-यावत्केवली अस्मिन् समये येष्वाकाशप्रदेशेषु यावत्तिष्ठति न प्रभुः केवली एष्यत्कालेऽपि तेष्वेवाकाशप्रदेशेषु हस्तं वा याक्त्स्थातुम् / गौतम! केवलिनो वीर्यसयोगसद्रव्यतया चलानि उपकरणानि भवन्ति, चलोपकरणार्थतया च केवली अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा यावत्तिइति, न प्रभुः केवली एष्यत्कालेऽपि तेप्वेव स्थातुम् , स तेनार्थेन यावदुच्यते अस्मिन् समये यावत्स्थातुम् / For Private and Personal Use Only