________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . व्याख्या-'पोग्गलपणोल्लणाए 'त्ति। अनयाऽऽरम्भचक्त्या हेतुभूतया क्रियया-एजनादिलक्षणया पुद्गलप्रणोदनायां जीवघनलोकान्तरस्थापरापरपुद्गलप्रेरणायां तथाविधसहकारिसम्पर्कसमुद्भूतायां सत्यां व आरम्भो भवति स नियमान्मुनीनां शास्यिकज्ञातेनादुष्टो भणितः। ____ अयं भावः-स्थूलक्रियाया (यां) पुद्गलप्रेरणायामारम्भस्तावत्साधूनामप्यवर्जनीयो भवति / अत एवाहारकसमुद्घातनिःसृष्टपुद्गलैरपि शरीरसम्बद्धस्तदसम्बदैर्वा प्राणादिघाते त्रिक्रियत्वादिकमुक्तम् / तथा च समुद्घातपदे प्रज्ञापनासूत्रम्- " तेणं भंते ! पोग्गला णिच्छूढा समाणा जाई तत्थ पाणाई भूआई जीवाइं सत्ताई अभिहणंति जाव उवदंनि, ते णं जीवे कइकिरिए ? गो ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए / ते णं भंते ! मोवा ताओ जीवाओ कइकिरिआ ? एवं चेव से ण भंते ! जीवे ते अजीवा अण्णेसि जीवाणं परं पराघाएणं कइकिरिया ? गो! तिकिरियावि चरकिरियावि पंचकिरिया वित्ति" / परं प्रमत्ततादशायामारम्भप्रत्यया क्रिया निमित्तम् , अप्रमत्ततादशायां तु धार्मिकक्रियायोगान्तर्भूततया शास्यिकदृष्टान्तेन हितत्वाद् योगातिरिक्तदोषविधया नदोषभाक् / तदुक्तं बृहत्कल्पभाष्ये-" 2 आहारणीहारविहीसु जोगो, सबो अदोसाय जहा जयस्स / हिआय सस्संमि व सस्सियस्स भंडस्स एवं परिकम्मणं तु // 1 // " यथा यतस्य प्रयत्नपरस्य साधोराहारनीहारादिविषयः सर्वोऽपि योगो भवन्मतेनाप्यदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् / दृष्टान्तमाह-'हियाय सस्समि व सस्सिअस' त्ति। शस्येन चरतीति शास्यिकः, तस्य यथा तद्विषयं परिकर्मणं नंदिणतादिकं हिताय भवति, तथेदमपि भाण्डपरिकर्मणम् / तथा चोक्तं" यद्वच्छस्यहितार्थं शस्याकोणेऽपि विचरतः क्षेत्रे / या भवति शस्यपीडा, यत्न 1 तेन भदन्त! पुद्गला निःक्षिप्ताः सन्तः यान् तत्र प्राणान् भूतान् जीवान् सस्वानि अभिनन्ति, यावदुपद्रवन्ति स भवन्त! जीवः कतिक्रियः गौ०! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात्पञ्चक्रियः / ते च भदन्त जीवाः / कतिक्रियाः / एवमेव स च भदन्त ! जीवः / ते अजीवा अन्येषां जीव' परम्पराघातेन कतिक्रियाः ? गौ० ! स्याद् त्रिक्रिया अपि, चतुष्क्रिया: पञ्चक्रिया घेति // 2 आहारनीहारविधिषु योगः सर्वोऽदोषाय यथा यतस्य / हिताय शस्य इव शास्यिकस्य भाण्डस्यैतत्परिकर्मणं तु॥ For Private and Personal Use Only