________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णियउसुत्तत्ति / नियतोत्सूत्रं निमितं यस्यां मा तथा, संसारामन्तता न सूत्रोक्ता, नियतोत्सूत्रं विनाऽपि मैथुनप्रतिसेवायुन्मार्गसमाचरण-तद्वन्दनादिनाऽप्यनन्तसंसारार्जनेन व्यभिचारात् / न चोसूत्रभाषणजन्येऽनन्तसंसारार्जने नियतोत्सूत्रभाषणस्यैव हेतुत्वान दोषः, तादृशकार्यकारणभावबोधकनियतसूत्रानुपलम्भादू / “उस्सुत्तभासगाणं पोहीपासो अणंतसंसारो".-. इत्यादिवचनानां सामान्यत एव कार्यकारणभावग्राहकवाद / उत्तरकालं तत्र नियतत्वाख्यो विशेषः कल्प्यते इति चेद, नैतदेवम् , तथा सति ययाछन्दस्य कस्याप्यनन्तसंसारानुपपत्तिप्रसक्तेः, तस्य स्वदभिप्रायेणापरापरभावेन गृहीतयुक्तोरसूत्रस्य नियतोत्सूत्रमापिस्वाभावात्। तथा च" सव्वप्पवयणसारं मूल संसारदुक्खमुक्खस्स / संमत्तं मइलित्ता ते दुग्गइवडया टुंति // " इत्यादिभाष्यवचनविरोधः / अथ यथाछन्दस्यापि यस्यानन्तसंसा रार्जनं तस्य क्लिष्टाध्यवसायविशेषादेव, उन्मार्गपतितस्य निहवस्य तु नियतोत्सूत्रभाषणादेवेति न दोष इति चेद् / न, एवं सत्यनियतहेतुकत्वप्रसङ्गाद् / अनियतहेतुकत्वं नामेति व्यक्तमाकरे / तथा च विप्रतिपन्न उन्मार्गस्थोऽनन्तसंसारी, नियतोत्सूत्रभाषित्वाद् इत्यत्राप्रयोजकत्वम् , किं तर्हि अनन्तसंसारतायामनुगतं नियामकमित्यत्राह-सस्याः संसारानन्ततायाः कारणं भिन्न एवानुगतोऽध्यवसायस्तीव्रत्वसंशितः कैवलिना, केवलिना निश्चीयमानोऽस्तीति गम्यम् / यस्य संग्रहादेशास्वातन्त्र्येणैव तस्यामनुगतं हेतुत्वम् , व्यवहारादेशाच क्रियाविशेषे सहकारित्वं घटकत्वं वा। शब्दमात्रानुगततीव्राध्यवसायसहकतायास्तत्पूर्वीकाया वा पापक्रियाया अनन्तसंसारहेतुत्वव्यवहारात् / सप उत्सूत्रभाषकानां घोधिनाशोऽनन्तसंसारः . . सर्वप्रवचनसारं मूलं संसारदुःखमोसस्य / सम्यक्त्वं मलिनयित्वा ते दुर्गतिवर्द्धका भवन्ति // For Private and Personal Use Only