SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न च झणिता क्लच्छेदाधिकारे; किं भगवतीवचनादारम्भस्स क्रियाविनाभावित्वमङ्गीकृत्यापि प्रतिषन्चैव पूर्वपक्षी (क्षिणा) दूषणं दत्तम् / तथाहि" आरंभमिट्टो जह आसवाय, गुत्ती य सेआय तहा तु साहू / णो फंद वारेहि व छिज्जमाणं, पइण्णहाणी व अतोऽण्णहा ते " // 'आरम्भमिट्टो' ति / मकारोऽलाक्षणिकः / हे नोदक ! यथाऽऽरम्भस्तवाश्रवाय कर्मोपादानायेष्टोऽभिमतः, गुप्तिश्च तत्परिहाररूपा श्रेयसे कर्मानुपादानायाभिप्रेता, तथा च सति हे साधो ! मा स्पन्द, मा वा वस्त्रं छिद्यमानं वारय / किमुक्तं भवति-यदि वस्त्रच्छेदनमारम्भतया भवता कर्मबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनात्मिका चेष्टा क्रियते, यो वा तत्सतिषेधको ध्व. निरुच्चार्यते तावप्यारम्भतया भवता न कर्त्तव्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि, ततस्ते प्रतिज्ञाहानिः-स्ववचनविरोधलक्षणं दूषणमापद्यत इत्यर्थः // अथ ब्रुवीथाः-योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वानिदोष इति / अत्रोच्यते " 2 अदोसवं ते जइ एस सद्दो अण्णोवि कम्हा ण भवे अदोसो। - अहिच्छया तुज्झ सदोस एको एवं सती कस्से भवे ण सिद्धी // " यद्येष त्वदीयः शब्दोऽदोषवान् , ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् ; तस्यापि प्रमाणातिरिक्तपरिभोगविरूपादिदोषपरिहारहेतुवात् / अथेच्छया स्वाभिप्रायेण तवैको वस्त्रछेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत्-सर्वस्यापि वा गाढवचनमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः / ततथास्माभिरप्येवं वक्तुं शक्यम्, योऽयं वन. च्छेदनसमुत्यः शब्दः स निर्दोषः, शब्दत्वाद् , भवत्परिकल्पितशब्दवदित्यादि तत्तस्मात्कारणात्तत्र वस्त्रच्छेदाधिकारे सम्पतिवचनं प्रज्ञप्तेः "जीवे णं एस जीवे"इत्यादि नान्या) किं त्वेजनादिक्रियाणामारम्भाविनाभावित्वप्रतिपादकमेव, अन्यथैतदर्थसमर्थनार्थमेतत्सूत्रमुपन्यस्तवन्तं तं पूर्वपक्षिणमन्यार्थप्रदर्शनेनैतदभिप्रायानभिज्ञमवक्ष्यत् कल्पभाष्यकृदिति / अस्मादेव भगवतीसूत्रादबाधितयथाश्रुतार्था१ आरम्भ इष्टो यथाऽऽसवाय गुप्तिश्च श्रेयसे तथा च साधो ! / नो स्पग्द वारय वा छिद्यमानं प्रतिज्ञाहानिर्वाऽतोऽन्यथा ते // अदोषवान् ते यदि एष शब्दः, अन्योपि कस्मान भवेददोषः / सदोष एक एवं सति कस्य भवेन सिद्धिः // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy