________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्तव्या / यः पुनरात्मना चेतःमणिधानेन शुद्ध उपयुक्तगमनादिक्रियाकारीत्यर्थः, तस्य यदा वधेन प्राणिव्यपरोपणेन सह योगः सम्बन्धो न भवति तदा द्विधापि द्रव्यतो भावतोऽपि च हिंसा न भवतीति भावः / तदेवं भगवत्प्रणोते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवय॑न्ते / अत्र चायभङ्गे हिंसायां व्याप्रियमाणकाययोगेऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः, ततो यदुक्तं 'भवता वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति तत्प्रवचनरहस्यानभिज्ञतासूचकमिति // 62 // नन्वत्र 'अप्रमत्तादीनामधिकृतवस्त्रच्छेदनव्यापारवान् हिंसकः, योगवत्वाद्' इति परोपन्यस्तानुमानदृषणव्यभिचारस्फोरणाय व्यभिचारस्थानत्वं प्रदशितम् / व्यभिचारश्च हेतुसत्त्वे साध्यासत्त्वमिति केवलिनोऽप्रमत्तादिसाधार येन योगबत्त्वम्, अहिंसकत्वं च सिद्धयति, नतु कथमपि द्रव्यहिंसेति चेत्, न / अत्र च 'आद्यभङ्गः' इत्यादिनिगमनवचनविचारणयाऽधिकृतवस्त्रच्छेदनव्यापारवानहिंसकः, हिंसाव्याप्रियमाणकाययोगवत्त्वेऽपि भावत उपयुक्तत्वात् , अप्रमत्सादिवद् -इति स्वतन्त्रसाधनदृष्टान्त एव भगवति तत्सिद्धेः। किञ्च पूर्वपक्षिणा वस्त्रछेदनादिव्यापारे हिंसान्वितयोगत्वं तावद् भगवती' वचनेनैव प्रदर्शितम् / तथाहि" 'सद्दो तहिं मुच्छइ च्छे अणा वा धावंति ते दो वि उ जाव लोगो / वत्थस्स देहस्स य जो विकम्पो ततोवि वाता वितरन्ति लोग" // भो आचार्य ! तत्र वस्त्रे छिद्यमाने शब्द सम्मूर्च्छति, छेदनका वा सूक्ष्मावयवा उड्डीयन्ते, एते च द्वयेऽपि विनिर्गता लोकान्तं यावत् प्राप्नुवन्ति / तथा वस्त्रस्य देहस्य च यो विकम्पश्चलनं ततोऽपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति / / २“अहिच्छसी जंति ण ते उ दूरं संखोभिया ते अवरे वयंती / उर्दू अहेया वि चउद्दिस पि पूरिति लोगं तु खणेण सर्व // " __ अथाचार्य! त्वमिच्छसि-मन्यसे वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला न दूरं लोकान्तं यान्ति, तर्हि तैः संक्षोभिताचालिताः सन्तोऽपरें व्रजन्ति; एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्वमधश्चतसृष्वपि दिक्षु सर्वमपि लोकमापूरयन्ति " // यत एवमतः१. शब्दस्तत्र मूर्च्छति, छेदनका वा धावन्ति ते द्वयेऽपि तु यावल्लोकम् / वस्त्रस्य देहस्य च यो विकम्पस्ततोऽपि वाता वितरन्ति लोकम् // 2 अथेच्छसि यान्ति न ते तु दुरं संक्षोभिताः तैरपरे व्रजन्ति / ऊर्ध्वमधो वाऽपि चतसृषु दिक्ष्वपि पूरयन्ति लोकं तु क्षणेन सर्वम् // For Private and Personal Use Only