________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 भवति रागद्वेषरहितेन परीक्षकेण, यदप्रमत्तादीनां सयोगिकेवलिचरमाणां नो नैव हिंसा, व्याप्रियमाणयोगानामपीति शेषः / तथा च तद्ग्रन्थः अप्येव सिद्धतमजाणमाणो तं हिंसगं भाससि जोगवतं / ___दवेण भावेण य संविभत्ता चत्तारि भंगा खलु हिंसगत्ते" // अपीत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः / यदेवं योगवन्तं छेदनादिव्यापारवन्तं जीवं हिंसक त्वं भाषसे, तनिश्चीयते सम्यक् सिद्धान्तमजानत एवं प्रलापः। सिद्धान्ते योगमात्रप्रत्ययादेव न हिंसोपवय॑ते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् / कथं तर्हि सा प्रवचने प्ररूप्यते ? इत्याह-द्रव्येण भावेन च संविभक्ताश्चत्वारो भङ्गा खलु हिंसकत्वे भवन्ति / तथाहि-१. द्रव्यतो नामैका हिंसा न भावतः, 2. भावतो नामैका हिंसा न द्रव्यतः, 3. एका द्रव्यतोऽपि भावतोऽपि, 4. एका न द्रव्यतो नापि भावतः / अथैषामेव ययाक्रमं भावनां कुर्वन्नाह.... आहच्च हिंसा समिअस्स जा उ, सा दवओ होइ ण भावओ। भावेण हिंसा उ असंजयस्स, जे वा वि सत्ते ण सदा वहेइ // ३संपत्ति तस्सेव जदा भविज्जा, सा दबहिंसा खलु भावओ अ। अज्झत्थसुद्धस्स जदा ण होज्जा वधेण जोगो दुहओ वि हिंसा // समितस्येर्यासमितावुपयुक्तस्य याऽऽहत्य कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा / इयं च प्रमादयोगाभावात् तत्त्वतो अहिंसैव मन्तव्या, “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा” इति वचनात् / भावेन भावतो या हिंसा न तु द्रव्यतः साऽसंयतस्य प्राणातिपातादेरनिवृत्तस्योपलक्षणत्वात् संयतस्य वाऽनुपयुक्तगमनागमनादि कुर्वतो यानपि सत्त्वानसौ सदैव न हन्ति तानप्याश्रित्य मन्तव्या, 1 4" जे वि न वाविजंती गियमा तेसिपि हिंसो सो उ” नि वचनाद् / यदा तु तस्यैव प्राणिव्यपरोपणसम्माप्तिर्भवति, तदा सा द्रव्यतो भावतश्च हिंसा प्रति१ अप्येव सिद्धान्तमजानन् त्वं हिसकं भाषसे योगवन्तम् / द्रव्येण भावेण च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वे // . 2 आहत्य हिंसा समितस्य या तु सा द्रव्यतो भवति न भावतस्तु। भावेन हिंसा त्वसंयतस्य यचापि सरवान् न सदा हन्ति / 3 संप्राप्तिस्तस्यैव यदा भवेत् सा द्रव्यहिंसा खलु भावतश्च / अध्यात्मशुद्धस्य यदा न भवेत् वधेन योगो द्विधापि हिंसा // है येपि न व्यापायन्ते नियमातेषामपि हिंसकः स त्विति // For Private and Personal Use Only