________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 209 भिधानाद् विरुद्धधर्माभ्यां तदभावस्येव तद्ववेदस्यापि सम्भवेन तच्छ्न्यत्वव्यवहारोपपत्तेः / हिंसास्वरूपमधिकृत्य तु द्रव्यमात्रहिंसायामप्यहिंसात्वं प्रवचने प्रतीतमिति कदाचिद् द्वितोयभङ्गस्वामित्वेऽपि भगवतः स्नातकस्य निर्ग्रन्थस्येव चतुर्थभगस्वामित्वाऽविरोध एव, अहिंसापरिणत्यभेदाश्रयणेन तद्भङ्गस्यापि सम्भवदुक्तिकलात् / न चैवं द्वितीयभङ्गकालेऽपि चतुर्थभङ्गापत्तिव्यहिंसाकालेऽप्यप्रमत्तयतीनां मनोवाकायशुद्धखानपायादिति वा वाच्यम्, चतुर्थभङ्गोपपादकमनोवाक्कायशुद्धताया गुप्तिरूपाया एव ग्रहणाद् अत एव नियतचतुर्थभङ्गस्वामित्वमयोगिकेवलिनोऽपि नानुपपन्नम्, शुद्धप्रवृत्तिव्यापारेणैव विरोधव्यापारेणापि मनोवाकाय. शुद्धताऽनपायाद्, अन्यथा तदविनाभाविध्यानानुपपत्तेः / उक्तं हि-ध्यानं करणानां सत्मवृत्ति-निरोधान्यतरनियतम् " 'सुदढप्पयत्तवावारणं णिरोहो व विजमाणाण / ज्ञाणं करणाणमयं ण उ चित्तणिरोहमेत्तागं // इत्यादिग्रन्थेन विशेषावश्यके शोधकेन च व्यापारमुपसम्पद्योपरतेनापि शुद्धत्वव्यवहारो भवत्येव, यथा जलेन शुद्धं वस्त्रमिति / सर्वोत्कृष्टमनोवाकायशुद्धतयाऽयोगिकेवली नियमेनैव चतुर्थभङ्गस्वामो युज्यत इति / न च शैलेश्यवस्थायामपि शारीरस्पर्शमागतानां मशकादीनां व्यापत्तौ चतुर्थभङ्गस्वामित्वनियमानुपपत्तिा, द्रव्य हिंसायास्तदनुकूलनोदनाख्ययोगव्यापारनियतत्वात् , तत्र तदभावात्तत्सम्बन्धमात्रस्यातिप्रसअकत्वादिति दिक् // 61 // _यदि च 'न द्रव्यतो न भावतो मनोवाकायशुद्धस्य साधोः' इति वचनानुरोधेन सयोगिकेवलिनश्चतुर्थभङ्गस्वामित्वमेवाभिमतं भवेत् तदाऽप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां द्रव्यहिंसया दोषाभावतौल्यं प्रवचनाभिहितं न घटेतेत्याह'पय चिय वयणमिणं दहवं होइ कप्पजासस्स / जं अपमत्ताईणं सजोगिचरमाण णो हिंसा // 6 // व्याख्या-पयडं चिय' त्ति / प्रकटमेवैतद्वचनं कल्पभाष्यस्य द्रष्टव्यं 1 सुदृढप्रयत्नव्यापारणं निरोध इव विद्यमानानाम् / ध्यानं करणानामयं न तु चित्तनिरोधमात्रकम् // 2 प्रकटमेव वचनमिदं द्रष्टव्यं भवति कल्पभाष्यस्य / यदप्रमत्तादीनां सयोगिचरमाणां नो हिंसा // 62 / / For Private and Personal Use Only